🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 38
The Book of the Forest · Parva 3 · 45 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 3.38local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 45 Shlokas
MBh 3.38.1
[वै]
कस्य चित तव अथ कालस्य धर्मराजॊ युधिष्ठिरः
संस्मृत्य मुनिसंदेशम इदं वचनम अब्रवीत
MBh 3.38.2
विविक्ते विदितप्रज्ञम अर्जुनं भरतर्षभम
सान्त्वपूर्वं समितं कृत्वा पाणिना परिसंस्पृशन
MBh 3.38.3
स मुहूर्तम इव धयात्वा वनवासम अरिंदमः
धनंजयं धर्मराजॊ रहसीदम उवाच ह
MBh 3.38.4
भीष्मे दरॊणे कृपे कर्णे दरॊणपुत्रे च भारत
धनुर्वेदश चतुष्पाद एतेष्व अद्य परतिष्ठितः
MBh 3.38.5
बराह्मं दैवम आसुरं च सप्रयॊग चिकित्सितम
सर्वास्त्राणां परयॊगं च ते ऽभिजानन्ति कृत्स्नशः
MBh 3.38.6
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः
संविभक्ताश च तुष्टाश च गुरुवत तेषु वर्तते
MBh 3.38.7
सर्वयॊधेषु चैवास्य सदा वृत्तिर अनुत्तमा
शक्तिं न हापयिष्यन्ति ते काले परतिपूजिताः
MBh 3.38.8
अद्य चेयं महीकृत्स्ना दुर्यॊधन वशानुगा
तवयि वयपाश्रयॊ ऽसमाकं तवयि भारः समाहितः
तत्र कृत्यं परपश्यामि पराप्तकालम अरिंदम
MBh 3.38.9
कृष्णद्वैपायनात तात गृहीतॊपनिषन मया
तया परयुक्तया सम्यग जगत सर्वं परकाशते
तेन तवं बरह्मणा तात संयुक्तः सुसमाहितः
MBh 3.38.10
देवतानां यथाकालं परसादं परतिपालय
तपसा यॊजयात्मानम उग्रेण भरतर्षभ
MBh 3.38.11
धनुष्मान कवची खद्गी मुनिः सारसमन्वितः
न कस्य चिद ददन मार्गं गच्छ तातॊत्तरां दिशम
इन्द्रे हय अस्त्राणि दिव्यानि समस्तानि धनंजय
MBh 3.38.12
वृत्राद भीतैस तदा देवैर बलम इन्द्रे समर्पितम
तान्य एकस्थानि सर्वाणि ततस तवं परतिपत्स्यसे
MBh 3.38.13
शक्रम एव परपद्यस्व स ते ऽसत्राणि परदास्यति
दीक्षितॊ ऽदयैव गच्छ तवं दरष्टुं देवं पुरंदरम
MBh 3.38.14
एवम उक्त्वा धर्मराजस तम अध्यापयत परभुः
दीक्षितं विधिना तेन यतवाक्कायमानसम
अनुजज्ञे ततॊ वीरं भराता भरातरम अग्रजः
MBh 3.38.15
निदेशाद धर्मराजस्य दरष्टुं देवं पुरंदरम
धनुर गाण्डीवम आदाय तथाक्षय्यौ महेषुधी
MBh 3.38.16
कवची सतल तराणॊ बद्धगॊधाङ्गुलि तरवान
हुत्वाग्निं बराह्मणान निष्कैः सवस्ति वाच्य महाभुजः
MBh 3.38.17
परातिष्ठत महाबाहुः परगृहीतशरासनः
वधाय धार्तराष्ट्राणां निःश्वस्यॊर्ध्वम उदीक्ष्य च
MBh 3.38.18
तं दृष्ट्वा तत्र कौन्तेयं परगृहीतशरासनम
अब्रुवन बराह्मणाः सिद्धा भूतान्य अन्तर्हितानि च
कषिप्रं पराप्नुहि कौन्तेय मनसा यद यद इच्छसि
MBh 3.38.19
तं सिंहम इव गच्छन्तं शालस्कन्धॊरुम अर्जुनम
मनांस्य आदाय सर्वेषां कृट्णा वचनम अब्रवीत
MBh 3.38.20
यत ते कुन्ती महाबाहॊ जातस्यैच्छद धनंजय
तत ते ऽसतु सर्वं कौन्तेय याथा च सवयम इच्छसि
MBh 3.38.21
मास्माकं कषत्रियकुले जन्म कश चिद अवाप्नुयात
बराह्मणेभ्यॊ नमॊ नित्यं येषां युद्धे न जीविका
MBh 3.38.22
नूनं ते भरातरः सर्वे तवत कथाभिः परजागरे
रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः
MBh 3.38.23
नैव नः पार्थ भॊगेषु न धने नॊत जीविते
तुष्टिर बुद्धिर भवित्री वा तवयि दीर्घप्रवासिनि
MBh 3.38.24
तवयि नः पार्थ सर्वेषां सुखदुःखे समाहिते
जीवितं मरणं चैव राज्यम ऐश्वर्यम एव च
आपृष्टॊ मे ऽसि कौन्तेय सवस्ति पराप्नुहि पाण्डव
MBh 3.38.25
नमॊ धात्रे विधात्रे च सवस्ति गच्छ हय अनामयम
सवस्ति ते ऽसव आन्तरिक्षेभ्यः पार्थिवेभ्यश च भारत
दिव्येभ्यश चैव भूतेभ्यॊ ये चान्ये परिपन्थिनः
MBh 3.38.26
ततः परदक्षिणं कृत्वा भरातॄन धौम्यं च पाण्डवः
परातिष्ठत महाबाहुः परगृह्य रुचिरं धनुः
MBh 3.38.27
तस्य मार्गाद अपाक्रामन सर्वभूतानि गच्छतः
युक्तस्यैन्द्रेण यॊगेन पराक्रान्तस्य शुष्मिणः
MBh 3.38.28
सॊ ऽगच्छत पर्वतं पुण्यम एकाह्नैव महामनाः
मनॊजव गतिर भूत्वा यॊगयुक्तॊ यथानिलः
MBh 3.38.29
हिमवन्तम अतिक्रम्य गन्धमादनम एव च
अत्यक्रामत स दुर्गाणि दिवारात्रम अतन्द्रितः
MBh 3.38.30
इन्द्र कीलं समासाद्य ततॊ ऽतिष्ठद धनंजयः
अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस तदा
MBh 3.38.31
ततॊ ऽपश्यत सव्यसाची वृक्षमूले तपस्विनम
बराह्म्या शरिया दीप्यमानं पिङ्गलं जटिलं कृशम
MBh 3.38.32
सॊ ऽबरवीद अर्जुनं तत्र सथितं दृष्ट्वा महातपाः
कस तवं तातेह संप्राप्तॊ धनुष्मान कवची शरी
निबद्धासि तलत्राणः कषत्रधर्मम अनुव्रतः
MBh 3.38.33
नेह शस्त्रेण कर्तव्यं शान्तानाम अयम आलयः
विनीतक्रॊधहर्षाणां बराह्मणानां तपस्विनाम
MBh 3.38.34
नेहास्ति धनुषा कार्यं न संग्रामेण कर्हि चित
निक्षिपैतद धनुस तात पराप्तॊ ऽसि परमां गतिम
MBh 3.38.35
इत्य अनन्तौजसं वीरं यथा चान्यं पृथग्जनम
तथा वाचन्म अथाभीक्ष्णं बराह्मणॊ ऽरजुनम अब्रवीत
न चैनं चालयाम आस धैर्यात सुदृढ निश्चयम
MBh 3.38.36
तम उवाच ततः परीतः स दविजः परहसन्न इव
वरं वृणीष्व भद्रं ते शक्रॊ ऽहम अरिसूदनः
MBh 3.38.37
एवम उक्तः परत्युवाच सहस्राक्षं धनंजयः
पराञ्जलिः परणतॊ भूत्वा शूरः कुलकुलॊद्वहः
MBh 3.38.38
ईप्सितॊ हय एष मे कामॊ वरं चैनं परयच्छ मे
तवत्तॊ ऽदय भगवन्न अस्त्रं कृत्स्नम इच्छामि वेदितुम
MBh 3.38.39
परत्युवाच महेन्द्रस तं परीतात्मा परहसन्न इव
इह पराप्तस्य किं कार्यम अस्त्रैस तव धनंजय
कामान वृणीष्व लॊकांश च पराप्तॊ ऽसि परमां गतिम
MBh 3.38.40
एवम उक्तः परत्युवाच सहस्राक्षं धनंजयः
न लॊकान न पुनः कामान न देवत्वं कुतः सुखम
MBh 3.38.41
न च सर्वामरैश्वर्यं कामये तरिदशाधिप
भरातॄंस तान विपिने तयक्त्वा वैरम अप्रतियात्य च
अकीर्तिं सर्वलॊकेषु गच्छेयं शाश्वतीः समाः
MBh 3.38.42
एवम उक्तः परत्युवाच वृत्रहा पाण्डुनन्दनम
सान्त्वयञ शलक्ष्णया वाचा सर्वलॊकनमस्कृतः
MBh 3.38.43
यदा दरक्ष्यसि भूतेशं तर्यक्षं शूलधरं शिवम
तदा दातास्मि ते तात दिव्यान्य अस्त्राणि सर्वशः
MBh 3.38.44
करियतां दर्शने यत्नॊ देवस्य परमेष्ठिनः
दर्शनात तस्य कौन्तेय संसिद्धः सवर्गम एष्यसि
MBh 3.38.45
इत्य उक्त्वा फल्गुनं शक्रॊ जगामादर्शनं ततः
अर्जुनॊ ऽपय अथ तत्रैव तस्थौ यॊगसमन्वितः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 37
- Next chapter · Vana-Parva (Āraṇyaka) Ch 39 →
🪷 जय व्यास भगवान् 🪷