🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 37

The Book of the Forest · Parva 3 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 3.37.1
वैशंपायन उवाच भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः
MBh 3.37.2
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्
MBh 3.37.3
एवमेतन्महाबाहो यथा वदसि भारत इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद
MBh 3.37.4
महापापानि कर्माणि यानि केवलसाहसात् आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत
MBh 3.37.5
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्
MBh 3.37.6
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे
MBh 3.37.7
भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान् भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्
MBh 3.37.8
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः सर्व एव कृतास्त्राश्च सततं चाततायिनः
MBh 3.37.9
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः संश्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम्
MBh 3.37.10
दुर्योधनहिते युक्ता न तथास्मासु भारत पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे
MBh 3.37.11
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः
MBh 3.37.12
दुर्योधनेन ते वीरा मानिताश्च विशेषतः प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः
MBh 3.37.13
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च द्रोणस्य च महाबाहो कृपस्य च महात्मनः
MBh 3.37.14
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान्
MBh 3.37.15
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः
MBh 3.37.16
अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः
MBh 3.37.17
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया
MBh 3.37.18
न निद्रामधिगच्छामि चिन्तयानो वृकोदर अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम्
MBh 3.37.19
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः बभूव विमनास्त्रस्तो न चैवोवाच किंचन
MBh 3.37.20
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः आजगाम महायोगी व्यासः सत्यवतीसुतः
MBh 3.37.21
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः
MBh 3.37.22
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ
MBh 3.37.23
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत यत्ते भयममित्रघ्न हृदि संपरिवर्तते
MBh 3.37.24
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय
MBh 3.37.25
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः
MBh 3.37.26
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम येनाभिभविता शत्रून्रणे पार्थो धनंजयः
MBh 3.37.27
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते यामवाप्य महाबाहुरर्जुनः साधयिष्यति
MBh 3.37.28
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु वरुणं च धनेशं च धर्मराजं च पाण्डव शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च
MBh 3.37.29
ऋषिरेष महातेजा नारायणसहायवान् पुराणः शाश्वतो देवो विष्णोरंशः सनातनः
MBh 3.37.30
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च समादाय महाबाहुर्महत्कर्म करिष्यति
MBh 3.37.31
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते
MBh 3.37.32
एकत्र चिरवासो हि न प्रीतिजननो भवेत् तापसानां च शान्तानां भवेदुद्वेगकारकः
MBh 3.37.33
मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान्
MBh 3.37.34
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम्
MBh 3.37.35
धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत
MBh 3.37.36
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः धारयामास मेधावी काले काले समभ्यसन्
MBh 3.37.37
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः ययौ सरस्वतीतीरे काम्यकं नाम काननम्
MBh 3.37.38
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा
MBh 3.37.39
ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः न्यविशन्त महात्मानः सामात्याः सपदानुगाः
MBh 3.37.40
तत्र ते न्यवसन्राजन्कंचित्कालं मनस्विनः धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम्
MBh 3.37.41
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.37local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷