🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 33
The Book of the Forest · Parva 3 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 58 Shlokas
MBh 3.33.1
द्रौपद्युवाच
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्
MBh 3.33.2
आर्ताहं प्रलपामीदमिति मां विद्धि भारत
भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे
MBh 3.33.3
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः
MBh 3.33.4
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम्
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर
MBh 3.33.5
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च
MBh 3.33.6
उत्थानमभिजानन्ति सर्वभूतानि भारत
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्
MBh 3.33.7
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः
अपि धाता विधाता च यथायमुदके बकः
MBh 3.33.8
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः
कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा
MBh 3.33.9
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा
भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि
MBh 3.33.10
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि
अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्
नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन
MBh 3.33.11
यश्च दिष्टपरो लोके यश्चायं हठवादकः
उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते
MBh 3.33.12
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत्
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि
MBh 3.33.13
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्
आसीत न चिरं जीवेदनाथ इव दुर्बलः
MBh 3.33.14
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्
MBh 3.33.15
यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्
MBh 3.33.16
यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम्
MBh 3.33.17
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात्
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम
MBh 3.33.18
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः
MBh 3.33.19
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः
विदधाति विभज्येह फलं पूर्वकृतं नृणाम्
MBh 3.33.20
यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम्
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्
MBh 3.33.21
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि
स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः
MBh 3.33.22
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि
MBh 3.33.23
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा
बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम्
MBh 3.33.24
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ
अगारनगराणां हि सिद्धिः पुरुषहैतुकी
MBh 3.33.25
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः
धिया धीरो विजानीयादुपायं चास्य सिद्धये
MBh 3.33.26
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः
MBh 3.33.27
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम्
इदं त्वकुशलेनेति विशेषादुपलभ्यते
MBh 3.33.28
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्
MBh 3.33.29
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह
MBh 3.33.30
सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत
पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते
MBh 3.33.31
न चैवैतावता कार्यं मन्यन्त इति चापरे
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः
MBh 3.33.32
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्
कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः
MBh 3.33.33
तथैव धाता भूतानामिष्टानिष्टफलप्रदः
यदि न स्यान्न भूतानां कृपणो नाम कश्चन
MBh 3.33.34
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः
तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम्
MBh 3.33.35
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते
MBh 3.33.36
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः
MBh 3.33.37
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्
MBh 3.33.38
असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते
MBh 3.33.39
अलक्ष्मीराविशत्येनं शयानमलसं नरम्
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते
MBh 3.33.40
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः
धीरा नराः कर्मरता न तु निःसंशयं क्वचित्
MBh 3.33.41
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम्
न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते
MBh 3.33.42
अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि
MBh 3.33.43
अन्येषां कर्म सफलमस्माकमपि वा पुनः
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम्
MBh 3.33.44
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्
MBh 3.33.45
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः
यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया
MBh 3.33.46
तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित्
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्
MBh 3.33.47
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत
निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः
सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा
MBh 3.33.48
बहूनां समवाये हि भावानां कर्म सिध्यति
गुणाभावे फलं न्यूनं भवत्यफलमेव वा
अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत
MBh 3.33.49
देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये
युनक्ति मेधया धीरो यथाशक्ति यथाबलम्
MBh 3.33.50
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः
MBh 3.33.51
यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत्
MBh 3.33.52
व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः
MBh 3.33.53
उत्थानयुक्तः सततं परेषामन्तरैषणे
आनृण्यमाप्नोति नरः परस्यात्मन एव च
MBh 3.33.54
न चैवात्मावमन्तव्यः पुरुषेण कदाचन
न ह्यात्मपरिभूतस्य भूतिर्भवति भारत
MBh 3.33.55
एवं संस्थितिका सिद्धिरियं लोकस्य भारत
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः
MBh 3.33.56
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्
सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ
MBh 3.33.57
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा
तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे
MBh 3.33.58
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 32
- Next chapter · Vana-Parva (Āraṇyaka) Ch 34 →
Sources and Connected Readings
Continue from these 58 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.33local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷