🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 32

The Book of the Forest · Parva 3 · 40 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 3.32local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 40 Shlokas

MBh 3.32.1
[य] वल्गु चित्रपदं शलक्ष्णं याज्ञसेनि तवया वचः उक्तं तच छरुतम अस्माभिर नास्तिक्यं तु परभाषसे
MBh 3.32.2
नाहं धर्मफलान्वेषी राजपुत्रि चराम्य उत ददामि देयम इत्य एव यजे यष्टव्यम इत्य उत
MBh 3.32.3
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत गृहान आवसता कृष्णे यथाशक्ति करॊमि तत
MBh 3.32.4
धर्मं चरामि सुश्रॊणि न धर्मफलकारणात आगमान अनतिक्रम्य सतां वृत्तम अवेक्ष्य च धर्म एव मनः कृष्णे सवभावाच चैव मे धृतम
MBh 3.32.5
न धर्मफलम आप्नॊति यॊ धर्मं दॊग्धुम इच्छति यश चैनं शङ्कते कृत्वा नास्तिक्यात पापचेतनः
MBh 3.32.6
अतिवादान मदाच चैव मा धर्मम अतिशङ्किथाः धर्मातिशङ्की पुरुषस तिर्यग्गतिपरायणः
MBh 3.32.7
धर्मॊ यस्यातिशङ्क्यः सयाद आर्षं वा दुर्बलात्मनः वेदाच छूद्र इवापेयात स लॊकाद अजरामरात
MBh 3.32.8
वेदाध्यायी धर्मपरः कुले जातॊ यशस्विनि सथविरेषु स यॊक्तव्यॊ राजभिर धर्मचारिभिः
MBh 3.32.9
पापीयान हि स शूद्रेभ्यस तस्करेब्भ्यॊ विशेषतः शास्त्रातिगॊ मन्दबुद्धिर यॊ धर्मम अतिशङ्कते
MBh 3.32.10
परत्यक्षं हि तवया दृष्ट ऋषिर गच्छन महातपाः मार्कण्डेयॊ ऽपरमेयात्मा धर्मेण चिरजीविताम
MBh 3.32.11
वयासॊ वसिष्ठॊ मैत्रेयॊ नारदॊ लॊमशः शुकः अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः
MBh 3.32.12
परत्यक्षं पश्यसि हय एतान दिव्ययॊगसमन्वितान शापानुग्रहणे शक्तान देवैर अपि गरीयसः
MBh 3.32.13
एते हि धर्मम एवादौ वर्णयन्ति सदा मम कर्तव्यम अमरप्रख्याः परत्यक्षागम बुद्धयः
MBh 3.32.14
अतॊ नार्हसि कल्याणि धातारं धर्मम एव च रजॊ मूढेन मनसा कषेप्तुं शङ्कितुम एव च
MBh 3.32.15
धर्मातिशङ्की नान्यस्मिन परमाणम अधिगछति आत्मप्रमाण उन्नद्धः शरेयसॊ हय अवमन्यकः
MBh 3.32.16
इन्द्रियप्रीतिसंबद्धं यद इदं लॊकसाक्षिकम एतावान मन्यते बालॊ मॊहम अन्यत्र गच्छति
MBh 3.32.17
परायश चितां न तस्यास्ति यॊ धर्मम अतिशङ्कते धयायन स कृपणः पापॊ न लॊकान परतिपद्यते
MBh 3.32.18
परमाणान्य अतिवृत्तॊ हि वेद शास्त्रार्थनिन्दकः कामलॊभानुगॊ मूढॊ नरकं परतिपद्यते
MBh 3.32.19
यस तु नित्यं कृतमतिर धर्मम एवाभिपद्यते अशङ्कमानः कल्याणि सॊ ऽमुत्रानन्त्यम अश्नुते
MBh 3.32.20
आर्षं परमाणम उत्क्रम्य धर्मान अपरिपालयन सर्वशास्त्रातिगॊ मूढॊ शं जन्मसु न विन्दति
MBh 3.32.21
शिष्टैर आचरितं धर्मं कृष्णे मा समातिशङ्किथाः पुराणम ऋषिभिः परॊक्तं सर्वज्ञैः सर्वदर्शिभिः
MBh 3.32.22
धर्म एव्व पलवॊ नान्यः सवर्गं दरौपदि गच्छताम सैव नौः सागरस्येव वणिजः पारम ऋच्छतः
MBh 3.32.23
अफालॊ यदि धर्मः सयाच चरितॊ धर्मचारिभिः अप्रतिष्ठे तमस्य एतञ जगन मज्जेद अनिन्दिते
MBh 3.32.24
निर्वाणं नाधिगच्छेयुर जीवेयुः पशुजीविकाम विघातेनैव युज्येयुर न चार्थं किं चिद आप्नुयुः
MBh 3.32.25
तपश च बरह्मचर्यं च यज्ञः सवाध्याय एव च दानम आर्जवम एतानि यदि सयुर अफलानि वै
MBh 3.32.26
नाचरिष्यन परे धर्मं परे परतरे चये विप्रलम्भॊ ऽयम अत्यन्तं यदि सयुर अफलाः करियाः
MBh 3.32.27
ऋषयश चैव देवाश च गन्धर्वासुरराक्षसाः ईश्वराः कस्य हेतॊस ते चरेयुर धरम आदृताः
MBh 3.32.28
फलदं तव इह विज्ञाय धातारं शरेयसि धरुवे धर्मं ते हय आचरन कृष्णे तद्धि धर्मसनातनम
MBh 3.32.29
स चायं सफलॊ धर्मॊ न धर्मॊ ऽफल उच्यते दृश्यन्ते ऽपि हि विद्यानां फलानि तपसां तथा
MBh 3.32.30
तवय्य एतद वै विजानीहि जन्म कृष्णे यथा शरुतम वेत्थ चापि यथा जातॊ धृष्टद्युम्नः परतापवान
MBh 3.32.31
एतावद एव पर्याप्तम उपमानं शुचिस्मिते कर्मणां फलम अस्तीति धीरॊ ऽलपेनापि तुष्यति
MBh 3.32.32
बहुनापि हय अविद्वांसॊ नैव तुष्यन्त्य अबुद्धयः तेषां न धर्मजं किं चित परेत्य शर्मास्ति कर्म वा
MBh 3.32.33
कर्मणाम उत पुण्यानां पापानां च फलॊदयः परभवश चाप्ययश चैव देव गुह्यानि भामिनि
MBh 3.32.34
नैतानि वेद यः कश चिन मुह्यन्त्य अत्र परजा इमाः रक्ष्याण्य एतानि देवानां गूढमाया हि देवताः
MBh 3.32.35
कृशाङ्गाः सुव्रताश चैव तपसा दग्धकिल्बिषाः परसन्नैर मानसैर युक्ताः पश्यन्त्य एतानि वै दविजाः
MBh 3.32.36
न फलादर्शनाद धर्मः शङ्कितव्यॊ न देवताः यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता
MBh 3.32.37
कर्मणा फलम अस्तीति तथैतद धर्मशाश्वतम बरह्मा परॊवाच पुत्राणां यद ऋषिर वेद कश्यपः
MBh 3.32.38
तस्मात ते संशयः कृष्णे नीहार इव नश्यतु वयवस्त्य सर्वम अस्तीति नास्तिक्यं भावम उत्सृज
MBh 3.32.39
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः शिक्षस्वैनं नमस्वैनं मा ते भूद बुद्धिर ईदृशी
MBh 3.32.40
यस्य परसादात तद भक्तॊ मर्त्यॊ गच्छत्य अमर्त्यताम उत्तमं दैवतं कृष्णे मातिवॊचः कथं चन

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷