🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 31

The Book of the Forest · Parva 3 · 42 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 42 Shlokas

MBh 3.31.1
[दरौ] नमॊ धात्रे विधात्रे च यौ मॊहं चक्रतुस तव पितृपैतामहे वृत्ते वॊढव्ये ते ऽनयथा मतिः
MBh 3.31.2
नेह धर्मानृशंस्याभ्यां न कषान्त्या नार्जवेन च पुरुषः शरियम आप्नॊति न घृणित्वेन कर्हि चित
MBh 3.31.3
तवां चेद वयसनम अभ्यागाद इदं भारत दुःसहम यत तवं नार्हसि नापीमे भरातरस ते महौजसः
MBh 3.31.4
न हि ते ऽधयगमज जातु तदानीं नाद्य भारत धर्मात परियतरं किं चिद अपि चेज जीविताद इह
MBh 3.31.5
धर्मार्थम एव ते राज्यं धर्मार्थं जीवितं च ते बराह्मणा गुरवश चैव जानत्य अपि च देवताः
MBh 3.31.6
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह तयजेस तवम इति मे बुद्धिर न तु धर्मं परित्यजेः
MBh 3.31.7
राजानं धर्मगॊप्तारं धर्मॊ रक्षति रक्षितः इति मे शरुतम आर्याणां तवां तु मन्ये न रक्षति
MBh 3.31.8
अनन्या हि नरव्याघ्र नित्यदा धर्मम एव ते बुद्धिः सततम अन्वेति छायेव पुरुषं निजा
MBh 3.31.9
नावमंस्था हि सदृशान नावराञ शरेयसः कुतः अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गम अवर्धत
MBh 3.31.10
सवाहाकारैः सवधाभिश च पूजाभिर अपि च दविजान दैवतानि पितॄंश चैव सततं पार्थ सेवसे
MBh 3.31.11
बराह्मणाः सर्वकामैस ते सततं पार्थ तर्पिताः यतयॊ मॊक्षिणश चैव गृहस्थाश चैव भारत
MBh 3.31.12
आरण्यकेभ्यॊ लौहानि भाजनानि परयच्छसि नादेयं बराह्मणेभ्यस ते गृहे किं चन विद्यते
MBh 3.31.13
यद इदं वैश्वदेवान्ते सायंप्रातः परदीयते तद दत्त्वातिथि भृत्येभ्यॊ राजञ शेषेण जीवसि
MBh 3.31.14
इष्टयः पशुबन्धाश च काम्यनैमित्तिकाश च ये वर्तन्ते पाकयज्ञाश च यज्ञकर्म च नित्यदा
MBh 3.31.15
अस्मिन्न अपि महारण्ये विजने दस्यु सेविते राष्ट्राद अपेत्य वसतॊ धार्मस ते नावसीदति
MBh 3.31.16
अश्वमेधॊ राजसूयः पुण्डरीकॊ ऽथ गॊसवः एतैर अपि महायज्ञैर इष्टं ते भूरिदक्षिणैः
MBh 3.31.17
राजन परीतया बुद्ध्या विषमे ऽकषपराजये राज्यं वसून्य आयुधानि भरातॄन मां चासि निर्जितः
MBh 3.31.18
ऋजॊर मृदॊर वदान्यस्य हरीमतः सत्यवादिनः कथम अक्षव्यसनजा बुद्धिर आपतिता तव
MBh 3.31.19
अतीव मॊहम आयाति मनश च परिदूयते निशाम्य ते दुःखम इदम इमां चापदम ईदृशीम
MBh 3.31.20
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम ईश्वरस्य वशे लॊकस तिष्ठते नात्मनॊ यथा
MBh 3.31.21
धातैव खलु भूतानां सुखदुःखे परियाप्रिये दधाति सर्वम ईशानः पुरस्ताच छुक्रम उच्चरन
MBh 3.31.22
यथा दारुमयी यॊषा नरवीर समाहिता ईरयत्य अङ्गम अङ्गानि तथा राजन्न इमाः परजाः
MBh 3.31.23
आकाश इव भूतानि वयाप्य सर्वाणि भारत ईश्वरॊ विदधातीह कल्याणं यच च पापकम
MBh 3.31.24
शकुनिस तन्तु बद्धॊवा नियतॊ ऽयम अनीश्वरः ईश्वरस्य वशे तिष्ठन नान्येषां नात्मनः परभुः
MBh 3.31.25
मणिः सूत्र इव परॊतॊ नस्यॊत इव गॊवृषः धातुर आदेशम अन्वेति तन्मयॊ हि तद अर्पणः
MBh 3.31.26
नात्माधीनॊ मनुष्यॊ ऽयं कालं भवति कं चन सरॊतसॊ मध्यम आपन्नः कूलाद वृक्श इव चयुतः
MBh 3.31.27
अज्ञॊ जन्तुर अनीशॊ ऽयम आत्मनः सुखदुःखयॊः ईश्वर परेरितॊ गच्छेत सवर्गं नरकम एव च
MBh 3.31.28
यथा वायॊस तृणाग्राणि वशं यान्ति बलीयसः धातुर एवं वशं यान्ति सर्वभूतानि भारत
MBh 3.31.29
आर्य कर्मणि युञ्जानः पापे वा पुनर ईश्वरः वयाप्य भूतानि चरते न चायम इति लक्ष्यते
MBh 3.31.30
हेतुमात्रम इदं धात्तुः शरीरं कषेत्रसंज्ञितम येन कारयते कर्म शुभाशुभफलं विभुः
MBh 3.31.31
पश्य माया परभावॊ ऽयम ईश्वरेण यथा कृतः यॊ हन्ति भूतैर भूतानि मुनिभिर वेद दर्शिभिः
MBh 3.31.32
अन्यथा परिदृष्टानि मुनिभिर वेद दर्शिभिः अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
MBh 3.31.33
अन्यथैव हि मन्यन्ते पुरुषास तानि तानि च अन्यथैव परभुस तानि करॊति विकरॊति च
MBh 3.31.34
यथा काष्ठेन वा काष्टम अश्मानं चाश्मना पुनः अयसा चाप्य अयश छिन्द्यान निर्विचेष्टम अचेतनम
MBh 3.31.35
एवं स भगवान देवः सवयम्भूः परपितामहः हिनस्ति भूतैर भूतानि छद्म कृत्वा युधिष्ठिर
MBh 3.31.36
संप्रयॊज्य वियॊज्यायं कामकार करः परभुः करीडते भगवन भूतैर बालः करीडनकैर इव
MBh 3.31.37
न मातृपितृवद राजन धाता भूतेषु वर्तते रॊषाद इव परवृत्तॊ ऽयं यथायम इतरॊ जनः
MBh 3.31.38
आर्याञ शीलवतॊ दृष्ट्वा हरीमतॊ वृत्ति कर्शितान अनार्यान सुखिनश चैव विह्वलामीव चिन्तया
MBh 3.31.39
तवेमाम आपदं दृष्ट्वा समृद्धिं च सुयॊधन धातारं गर्हये पार्थ विषमं यॊ ऽनुपश्यति
MBh 3.31.40
आर्य शास्त्रातिगे करूरे लुब्धे धर्मापचायिनि धार्तराष्ट्रे शरियं दत्त्वा धाता किं फलम अश्नुते
MBh 3.31.41
कर्म चेत कृतम अन्वेति कर्तारं नान्यम ऋच्छति कर्मणा तेन पापेन लिप्यते नूनम ईश्वरः
MBh 3.31.42
अथ कर्मकृतं पापं न चेत कर्तारम ऋच्छति कारणं बलम एवेह जनाञ शॊचामि दुर्बलान

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷