🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 281
The Book of the Forest · Parva 3 · 108 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 108 Shlokas
MBh 3.281.1
मार्कण्डेय उवाच
अथ भार्यासहायः स फलान्यादाय वीर्यवान्
कठिनं पूरयामास ततः काष्ठान्यपाटयत्
MBh 3.281.2
तस्य पाटयतः काष्ठं स्वेदो वै समजायत
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना
MBh 3.281.3
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः
व्यायामेन ममानेन जाता शिरसि वेदना
MBh 3.281.4
अङ्गानि चैव सावित्रि हृदयं दूयतीव च
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि
MBh 3.281.5
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे
MBh 3.281.6
समासाद्याथ सावित्री भर्तारमुपगूह्य च
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले
MBh 3.281.7
ततः सा नारदवचो विमृशन्ती तपस्विनी
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह
MBh 3.281.8
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम्
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्
MBh 3.281.9
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च
MBh 3.281.10
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता
MBh 3.281.11
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्
कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि
MBh 3.281.12
यम उवाच
पतिव्रतासि सावित्रि तथैव च तपोन्विता
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम्
MBh 3.281.13
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम्
MBh 3.281.14
मार्कण्डेय उवाच
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम्
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे
MBh 3.281.15
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः
MBh 3.281.16
ततः सत्यवतः कायात्पाशबद्धं वशं गतम्
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्
MBh 3.281.17
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम्
MBh 3.281.18
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः
सावित्री चापि दुःखार्ता यममेवान्वगच्छत
नियमव्रतसंसिद्धा महाभागा पतिव्रता
MBh 3.281.19
यम उवाच
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया
MBh 3.281.20
सावित्र्युवाच
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति
मयापि तत्र गन्तव्यमेष धर्मः सनातनः
MBh 3.281.21
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च
तव चैव प्रसादेन न मे प्रतिहता गतिः
MBh 3.281.22
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु
MBh 3.281.23
नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च
विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम्
MBh 3.281.24
एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः
मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम्
MBh 3.281.25
यम उवाच
निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम्
MBh 3.281.26
सावित्र्युवाच
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे
स लब्धचक्षुर्बलवान्भवेन्नृप;स्तव प्रसादाज्ज्वलनार्कसंनिभः
MBh 3.281.27
यम उवाच
ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा
तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत्
MBh 3.281.28
सावित्र्युवाच
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे
MBh 3.281.29
सतां सकृत्संगतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते
न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत्समागमे
MBh 3.281.30
यम उवाच
मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम्
विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि
MBh 3.281.31
सावित्र्युवाच
हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः
जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम्
MBh 3.281.32
यम उवाच
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा;न्न च स्वधर्मात्परिहास्यते नृपः
कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत्
MBh 3.281.33
सावित्र्युवाच
प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया
अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया
MBh 3.281.34
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मः सनातनः
MBh 3.281.35
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते
MBh 3.281.36
यम उवाच
पिपासितस्येव यथा भवेत्पय;स्तथा त्वया वाक्यमिदं समीरितम्
विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि
MBh 3.281.37
सावित्र्युवाच
ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम्
कुलस्य संतानकरं च यद्भवे;त्तृतीयमेतं वरयामि ते वरम्
MBh 3.281.38
यम उवाच
कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे
कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता
MBh 3.281.39
सावित्र्युवाच
न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति
तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च
MBh 3.281.40
विवस्वतस्त्वं तनयः प्रतापवां;स्ततो हि वैवस्वत उच्यसे बुधैः
शमेन धर्मेण च रञ्जिताः प्रजा;स्ततस्तवेहेश्वर धर्मराजता
MBh 3.281.41
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति
MBh 3.281.42
सौहृदात्सर्वभूतानां विश्वासो नाम जायते
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः
MBh 3.281.43
यम उवाच
उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम्
अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च
MBh 3.281.44
सावित्र्युवाच
ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम्
शतं सुतानां बलवीर्यशालिना;मिदं चतुर्थं वरयामि ते वरम्
MBh 3.281.45
यम उवाच
शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले
परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता
MBh 3.281.46
सावित्र्युवाच
सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति
सतां सद्भिर्नाफलः संगमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः
MBh 3.281.47
सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति
सन्तो गतिर्भूतभव्यस्य राज;न्सतां मध्ये नावसीदन्ति सन्तः
MBh 3.281.48
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्
MBh 3.281.49
न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः
यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति
MBh 3.281.50
यम उवाच
यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत्
तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते
MBh 3.281.51
सावित्र्युवाच
न तेऽपवर्गः सुकृताद्विनाकृत;स्तथा यथान्येषु वरेषु मानद
वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम्
MBh 3.281.52
न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम्
न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम्
MBh 3.281.53
वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः
वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति
MBh 3.281.54
मार्कण्डेय उवाच
तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्
MBh 3.281.55
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि
अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति
MBh 3.281.56
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति
MBh 3.281.57
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः
MBh 3.281.58
पितुश्च ते पुत्रशतं भविता तव मातरि
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः
MBh 3.281.59
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ
MBh 3.281.60
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्
MBh 3.281.61
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह
MBh 3.281.62
संज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै
MBh 3.281.63
सत्यवानुवाच
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः
क्व चासौ पुरुषः श्यामो योऽसौ मां संचकर्ष ह
MBh 3.281.64
सावित्र्युवाच
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ
गतः स भगवान्देवः प्रजासंयमनो यमः
MBh 3.281.65
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्
MBh 3.281.66
मार्कण्डेय उवाच
उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्
MBh 3.281.67
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे
ततः पाटयतः काष्ठं शिरसो मे रुजाभवत्
MBh 3.281.68
शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन्
तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे
MBh 3.281.69
त्वयोपगूढस्य च मे निद्रयापहृतं मनः
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्
MBh 3.281.70
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्
MBh 3.281.71
तमुवाचाथ सावित्री रजनी व्यवगाहते
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज
MBh 3.281.72
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः
MBh 3.281.73
नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने
MBh 3.281.74
एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम्
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम
MBh 3.281.75
सत्यवानुवाच
वनं प्रतिभयाकारं घनेन तमसा वृतम्
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि
MBh 3.281.76
सावित्र्युवाच
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्
वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित्
MBh 3.281.77
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः
काष्ठानीमानि सन्तीह जहि संतापमात्मनः
MBh 3.281.78
यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये
न च ज्ञास्यसि पन्थानं तमसा संवृते वने
MBh 3.281.79
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव
वसावेह क्षपामेतां रुचितं यदि तेऽनघ
MBh 3.281.80
सत्यवानुवाच
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये
मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम्
MBh 3.281.81
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः
अनागतायां संध्यायां माता मे प्ररुणद्धि माम्
MBh 3.281.82
दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम
विचिनोति च मां तातः सहैवाश्रमवासिभिः
MBh 3.281.83
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा
उपालब्धः सुबहुशश्चिरेणागच्छसीति ह
MBh 3.281.84
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये
तयोरदृश्ये मयि च महद्दुःखं भविष्यति
MBh 3.281.85
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ
MBh 3.281.86
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्
MBh 3.281.87
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः
त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति
MBh 3.281.88
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः
MBh 3.281.89
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी
MBh 3.281.90
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे
MBh 3.281.91
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्
MBh 3.281.92
नात्मानमनुशोचामि यथाहं पितरं शुभे
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम्
MBh 3.281.93
मत्कृतेन हि तावद्य संतापं परमेष्यतः
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम्
MBh 3.281.94
मार्कण्डेय उवाच
एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः
उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह
MBh 3.281.95
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम्
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी
MBh 3.281.96
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि
श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी
MBh 3.281.97
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम्
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम
MBh 3.281.98
सत्यवानुवाच
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम्
पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम्
न जीविष्ये वरारोहे सत्येनात्मानमालभे
MBh 3.281.99
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि
मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात्
MBh 3.281.100
मार्कण्डेय उवाच
सावित्री तत उत्थाय केशान्संयम्य भामिनी
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै
MBh 3.281.101
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना
दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे
MBh 3.281.102
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि
योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम्
MBh 3.281.103
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम्
गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत्
MBh 3.281.104
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा
दक्षिणेन परिष्वज्य जगाम मृदुगामिनी
MBh 3.281.105
सत्यवानुवाच
अभ्यासगमनाद्भीरु पन्थानो विदिता मम
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये
MBh 3.281.106
आगतौ स्वः पथा येन फलान्यवचितानि च
यथागतं शुभे गच्छ पन्थानं मा विचारय
MBh 3.281.107
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ
MBh 3.281.108
मार्कण्डेय उवाच
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 280
- Next chapter · Vana-Parva (Āraṇyaka) Ch 282 →
Sources and Connected Readings
Continue from these 108 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.281local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷