🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 280

The Book of the Forest · Parva 3 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 3.280.1
मार्कण्डेय उवाच ततः काले बहुतिथे व्यतिक्रान्ते कदाचन प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप
MBh 3.280.2
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः
MBh 3.280.3
चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत्
MBh 3.280.4
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन्
MBh 3.280.5
अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे तिसृणां वसतीनां हि स्थानं परमदुष्करम्
MBh 3.280.6
सावित्र्युवाच न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् व्यवसायकृतं हीदं व्यवसायश्च कारणम्
MBh 3.280.7
द्युमत्सेन उवाच व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्
MBh 3.280.8
मार्कण्डेय उवाच एवमुक्त्वा द्युमत्सेनो विरराम महामनाः तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते
MBh 3.280.9
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत
MBh 3.280.10
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः
MBh 3.280.11
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता
MBh 3.280.12
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः
MBh 3.280.13
एवमस्त्विति सावित्री ध्यानयोगपरायणा मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम्
MBh 3.280.14
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता
MBh 3.280.15
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम
MBh 3.280.16
श्वशुरावूचतुः व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया आहारकालः संप्राप्तः क्रियतां यदनन्तरम्
MBh 3.280.17
सावित्र्युवाच अस्तं गते मयादित्ये भोक्तव्यं कृतकामया एष मे हृदि संकल्पः समयश्च कृतो मया
MBh 3.280.18
मार्कण्डेय उवाच एवं संभाषमाणायाः सावित्र्या भोजनं प्रति स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम्
MBh 3.280.19
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे
MBh 3.280.20
सत्यवानुवाच वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि
MBh 3.280.21
सावित्र्युवाच उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि
MBh 3.280.22
सत्यवानुवाच यदि ते गमनोत्साहः करिष्यामि तव प्रियम् मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम्
MBh 3.280.23
मार्कण्डेय उवाच साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता अयं गच्छति मे भर्ता फलाहारो महावनम्
MBh 3.280.24
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च अनेन सह निर्गन्तुं न हि मे विरहः क्षमः
MBh 3.280.25
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्
MBh 3.280.26
संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात् वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे
MBh 3.280.27
द्युमत्सेन उवाच यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्
MBh 3.280.28
तदेषा लभतां कामं यथाभिलषितं वधूः अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि
MBh 3.280.29
मार्कण्डेय उवाच उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी सह भर्त्रा हसन्तीव हृदयेन विदूयता
MBh 3.280.30
सा वनानि विचित्राणि रमणीयानि सर्वशः मयूररवघुष्टानि ददर्श विपुलेक्षणा
MBh 3.280.31
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् सत्यवानाह पश्येति सावित्रीं मधुराक्षरम्
MBh 3.280.32
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता मृतमेव हि तं मेने काले मुनिवचः स्मरन्
MBh 3.280.33
अनुवर्तती तु भर्तारं जगाम मृदुगामिनी द्विधेव हृदयं कृत्वा तं च कालमवेक्षती

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.280local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷