🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 282
The Book of the Forest · Parva 3 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 3.282.1
मार्कण्डेय उवाच
एतस्मिन्नेव काले तु द्युमत्सेनो महावने
लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह
MBh 3.282.2
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ
MBh 3.282.3
तावाश्रमान्नदीश्चैव वनानि च सरांसि च
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः
MBh 3.282.4
श्रुत्वा शब्दं तु यत्किंचिदुन्मुखौ सुतशङ्कया
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम्
MBh 3.282.5
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः
MBh 3.282.6
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम्
MBh 3.282.7
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः
MBh 3.282.8
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया
बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ
MBh 3.282.9
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम्
MBh 3.282.10
सुवर्चा उवाच
यथास्य भार्या सावित्री तपसा च दमेन च
आचारेण च संयुक्ता तथा जीवति सत्यवान्
MBh 3.282.11
गौतम उवाच
वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत्
कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः
MBh 3.282.12
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे
वायुभक्षोपवासश्च कुशलानि च यानि मे
MBh 3.282.13
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम्
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति
MBh 3.282.14
शिष्य उवाच
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम्
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान्
MBh 3.282.15
ऋषय ऊचुः
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्
MBh 3.282.16
भारद्वाज उवाच
यथास्य भार्या सावित्री तपसा च दमेन च
आचारेण च संयुक्ता तथा जीवति सत्यवान्
MBh 3.282.17
दाल्भ्य उवाच
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्
गताहारमकृत्वा च तथा जीवति सत्यवान्
MBh 3.282.18
माण्डव्य उवाच
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान्
MBh 3.282.19
धौम्य उवाच
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान्
MBh 3.282.20
मार्कण्डेय उवाच
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत्
MBh 3.282.21
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह
MBh 3.282.22
ब्राह्मणा ऊचुः
पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च
सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते
MBh 3.282.23
समागमेन पुत्रस्य सावित्र्या दर्शनेन च
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे
MBh 3.282.24
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति
MBh 3.282.25
मार्कण्डेय उवाच
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम्
MBh 3.282.26
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन्
MBh 3.282.27
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम्
MBh 3.282.28
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो
विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत्
MBh 3.282.29
संतापितः पिता माता वयं चैव नृपात्मज
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि
MBh 3.282.30
सत्यवानुवाच
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः
MBh 3.282.31
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये
तावत्कालं च न मया सुप्तपूर्वं कदाचन
MBh 3.282.32
सर्वेषामेव भवतां संतापो मा भवेदिति
अतो विरात्रागमनं नान्यदस्तीह कारणम्
MBh 3.282.33
गौतम उवाच
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति
MBh 3.282.34
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा
MBh 3.282.35
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः
MBh 3.282.36
सावित्र्युवाच
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः
न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत्
MBh 3.282.37
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्
MBh 3.282.38
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम्
MBh 3.282.39
अस्तौषं तमहं देवं सत्येन वचसा विभुम्
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम
MBh 3.282.40
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे
लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम्
MBh 3.282.41
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम्
MBh 3.282.42
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम
MBh 3.282.43
ऋषय ऊचुः
निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे
त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया
MBh 3.282.44
मार्कण्डेय उवाच
तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 281
- Next chapter · Vana-Parva (Āraṇyaka) Ch 283 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.282local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷