🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 272

The Book of the Forest · Parva 3 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 26 Shlokas

MBh 3.272.1
मार्कण्डेय उवाच ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम्
MBh 3.272.2
पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम्
MBh 3.272.3
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम्
MBh 3.272.4
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर
MBh 3.272.5
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः
MBh 3.272.6
अकृता या प्रहस्तेन कुम्भकर्णेन चानघ खरस्यापचितिः संख्ये तां गच्छस्व महाभुज
MBh 3.272.7
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम्
MBh 3.272.8
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति
MBh 3.272.9
तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः आह्वयामास समरे लक्ष्मणं शुभलक्षणम्
MBh 3.272.10
तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा
MBh 3.272.11
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा
MBh 3.272.12
रावणिस्तु यदा नैनं विशेषयति सायकैः ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः
MBh 3.272.13
तत एनं महावेगैरर्दयामास तोमरैः तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले
MBh 3.272.14
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् अभिद्रुत्य महावेगस्ताडयामास मूर्धनि
MBh 3.272.15
तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान् प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः
MBh 3.272.16
तमभ्याशगतं वीरमङ्गदं रावणात्मजः गदयाताडयत्सव्ये पार्श्वे वानरपुंगवम्
MBh 3.272.17
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित्
MBh 3.272.18
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम्
MBh 3.272.19
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः तत्रैवान्तर्दधे राजन्मायया रावणात्मजः
MBh 3.272.20
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत
MBh 3.272.21
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम्
MBh 3.272.22
तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा योधयामासतुरुभौ रावणिं रामलक्ष्मणौ
MBh 3.272.23
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः
MBh 3.272.24
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः
MBh 3.272.25
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः स भृशं ताडयन्वीरो रावणिर्माययावृतः
MBh 3.272.26
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.272local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷