🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 271

The Book of the Forest · Parva 3 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 27 Shlokas

MBh 3.271.1
मार्कण्डेय उवाच ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम्
MBh 3.271.2
तमभ्येत्याशु हरयः परिवार्य समन्ततः अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः करजैरतुदंश्चान्ये विहाय भयमुत्तमम्
MBh 3.271.3
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन्
MBh 3.271.4
स ताड्यमानः प्रहसन्भक्षयामास वानरान् पनसं च गवाक्षं च वज्रबाहुं च वानरम्
MBh 3.271.5
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा
MBh 3.271.6
तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः
MBh 3.271.7
ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः
MBh 3.271.8
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः
MBh 3.271.9
ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्
MBh 3.271.10
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः
MBh 3.271.11
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा
MBh 3.271.12
स तस्य देहावरणं भित्त्वा देहं च सायकः जगाम दारयन्भूमिं रुधिरेण समुक्षितः
MBh 3.271.13
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्
MBh 3.271.14
तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः
MBh 3.271.15
तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्
MBh 3.271.16
स बभूवातिकायश्च बहुपादशिरोभुजः तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम्
MBh 3.271.17
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव
MBh 3.271.18
तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात्
MBh 3.271.19
तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम्
MBh 3.271.20
तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः
MBh 3.271.21
ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः
MBh 3.271.22
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम्
MBh 3.271.23
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः
MBh 3.271.24
अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः
MBh 3.271.25
नीलश्च महता ग्राव्णा दूषणावरजं हरिः प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः
MBh 3.271.26
ततः प्रावर्तत पुनः संग्रामः कटुकोदयः रामरावणसैन्यानामन्योन्यमभिधावताम्
MBh 3.271.27
शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.271local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷