🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 262

The Book of the Forest · Parva 3 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 41 Shlokas

MBh 3.262.1
मार्कण्डेय उवाच मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् पूजयामास सत्कारैः फलमूलादिभिस्तथा
MBh 3.262.2
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम्
MBh 3.262.3
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा
MBh 3.262.4
किमिहागमने चापि कार्यं ते राक्षसेश्वर कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम्
MBh 3.262.5
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम्
MBh 3.262.6
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः
MBh 3.262.7
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः विनाशमुखमेतत्ते केनाख्यातं दुरात्मना
MBh 3.262.8
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम्
MBh 3.262.9
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम्
MBh 3.262.10
ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत्
MBh 3.262.11
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः
MBh 3.262.12
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति
MBh 3.262.13
तामादायापनेष्यामि ततः स न भविष्यति भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे
MBh 3.262.14
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः
MBh 3.262.15
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम्
MBh 3.262.16
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः
MBh 3.262.17
दर्शयामास वैदेहीं मारीचो मृगरूपधृक् चोदयामास तस्यार्थे सा रामं विधिचोदिता
MBh 3.262.18
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया
MBh 3.262.19
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा
MBh 3.262.20
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् चकर्ष महदध्वानं रामस्तं बुबुधे ततः
MBh 3.262.21
निशाचरं विदित्वा तं राघवः प्रतिभानवान् अमोघं शरमादाय जघान मृगरूपिणम्
MBh 3.262.22
स रामबाणाभिहतः कृत्वा रामस्वरं तदा हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह
MBh 3.262.23
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः
MBh 3.262.24
अलं ते शङ्कया भीरु को रामं विषहिष्यति मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते
MBh 3.262.25
इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम्
MBh 3.262.26
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा
MBh 3.262.27
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम्
MBh 3.262.28
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा
MBh 3.262.29
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः स रामस्य पदं गृह्य प्रससार धनुर्धरः
MBh 3.262.30
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्
MBh 3.262.31
सा तमालक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा निमन्त्रयामास तदा फलमूलाशनादिभिः
MBh 3.262.32
अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च सान्त्वयामास वैदेहीमिति राक्षसपुंगवः
MBh 3.262.33
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः
MBh 3.262.34
तत्र त्वं वरनारीषु शोभिष्यसि मया सह भार्या मे भव सुश्रोणि तापसं त्यज राघवम्
MBh 3.262.35
एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः
MBh 3.262.36
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम्
MBh 3.262.37
कथं हि भिन्नकरटं पद्मिनं वनगोचरम् उपस्थाय महानागं करेणुः सूकरं स्पृशेत्
MBh 3.262.38
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे
MBh 3.262.39
इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत्
MBh 3.262.40
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् मूर्धजेषु निजग्राह खमुपाचक्रमे ततः
MBh 3.262.41
तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः रुदतीं राम रामेति ह्रियमाणां तपस्विनीम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.262local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷