🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 263

The Book of the Forest · Parva 3 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 43 Shlokas

MBh 3.263.1
मार्कण्डेय उवाच सखा दशरथस्यासीज्जटायुररुणात्मजः गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः
MBh 3.263.2
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम्
MBh 3.263.3
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् ध्रियमाणे मयि कथं हरिष्यसि निशाचर न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम्
MBh 3.263.4
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव
MBh 3.263.5
स वध्यमानो गृध्रेण रामप्रियहितैषिणा खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः
MBh 3.263.6
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः
MBh 3.263.7
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् सरो वा सरितं वापि तत्र मुञ्चति भूषणम्
MBh 3.263.8
सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी
MBh 3.263.9
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा
MBh 3.263.10
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा
MBh 3.263.11
कथमुत्सृज्य वैदेहीं वने राक्षससेविते इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत्
MBh 3.263.12
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत
MBh 3.263.13
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् अपि जीवति वैदेही नेति पश्यामि लक्ष्मण
MBh 3.263.14
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः
MBh 3.263.15
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् स ददर्श तदा गृध्रं निहतं पर्वतोपमम्
MBh 3.263.16
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः
MBh 3.263.17
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह
MBh 3.263.18
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ
MBh 3.263.19
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम्
MBh 3.263.20
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च
MBh 3.263.21
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् संस्कारं लम्भयामास सखायं पूजयन्पितुः
MBh 3.263.22
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् विध्वस्तकलशं शून्यं गोमायुबलसेवितम्
MBh 3.263.23
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ
MBh 3.263.24
वने महति तस्मिंस्तु रामः सौमित्रिणा सह ददर्श मृगयूथानि द्रवमाणानि सर्वशः शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः
MBh 3.263.25
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् उरोगतविशालाक्षं महोदरमहामुखम्
MBh 3.263.26
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् विषादमगमत्सद्यः सौमित्रिरथ भारत
MBh 3.263.27
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम
MBh 3.263.28
हरणं चैव वैदेह्या मम चायमुपप्लवः राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा
MBh 3.263.29
नाहं त्वां सह वैदेह्या समेतं कोसलागतम् द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम्
MBh 3.263.30
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा
MBh 3.263.31
एवं बहुविधं धीमान्विललाप स लक्ष्मणः तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः
MBh 3.263.32
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः
MBh 3.263.33
इत्येवं वदता तस्य भुजो रामेण पातितः खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत्
MBh 3.263.34
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम्
MBh 3.263.35
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः
MBh 3.263.36
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन्
MBh 3.263.37
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे
MBh 3.263.38
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम्
MBh 3.263.39
रावणेन हृता सीता राज्ञा लङ्कानिवासिना सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति
MBh 3.263.40
एषा पम्पा शिवजला हंसकारण्डवायुता ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी
MBh 3.263.41
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह भ्राता वानरराजस्य वालिनो हेममालिनः
MBh 3.263.42
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ध्रुवं वानरराजस्य विदितो रावणालयः
MBh 3.263.43
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.263local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷