🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 264

The Book of the Forest · Parva 3 · 73 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Vana-Parva 258-275 · the Rāmopākhyāna: Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 73 Shlokas

MBh 3.264.1
मार्कण्डेय उवाच ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् सीताहरणदुःखार्तः पम्पां रामः समासदत्
MBh 3.264.2
मारुतेन सुशीतेन सुखेनामृतगन्धिना सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम्
MBh 3.264.3
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत्
MBh 3.264.4
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्
MBh 3.264.5
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय
MBh 3.264.6
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् मयि शिष्ये च भृत्ये च सहाये च समाश्वस
MBh 3.264.7
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्
MBh 3.264.8
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ
MBh 3.264.9
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा
MBh 3.264.10
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्
MBh 3.264.11
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः सख्यं वानरराजेन चक्रे रामस्ततो नृप
MBh 3.264.12
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत्
MBh 3.264.13
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्
MBh 3.264.14
प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप
MBh 3.264.15
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः
MBh 3.264.16
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत्
MBh 3.264.17
यथा नदति सुग्रीवो बलवानेष वानरः मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि
MBh 3.264.18
हेममाली ततो वाली तारां ताराधिपाननाम् प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः
MBh 3.264.19
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः
MBh 3.264.20
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर
MBh 3.264.21
हृतदारो महासत्त्वो रामो दशरथात्मजः तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः
MBh 3.264.22
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये
MBh 3.264.23
मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः
MBh 3.264.24
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः अलं तव विनाशाय रामवीर्यव्यपाश्रयात्
MBh 3.264.25
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्
MBh 3.264.26
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत
MBh 3.264.27
असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः
MBh 3.264.28
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः प्राप्तकालममित्रघ्नो रामं संबोधयन्निव
MBh 3.264.29
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया किं नु जीवितसामर्थ्यमिति विद्धि समागतम्
MBh 3.264.30
एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः समरे वालिसुग्रीवौ शालतालशिलायुधौ
MBh 3.264.31
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः
MBh 3.264.32
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ
MBh 3.264.33
न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत्
MBh 3.264.34
स मालया तदा वीरः शुशुभे कण्ठसक्तया श्रीमानिव महाशैलो मलयो मेघमालया
MBh 3.264.35
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत्
MBh 3.264.36
विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ वितत्रास तदा वाली शरेणाभिहतो हृदि
MBh 3.264.37
स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् ददर्शावस्थितं राममारात्सौमित्रिणा सह
MBh 3.264.38
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः तारा ददर्श तं भूमौ तारापतिमिव च्युतम्
MBh 3.264.39
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत तां च तारापतिमुखीं तारां निपतितेश्वराम्
MBh 3.264.40
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः
MBh 3.264.41
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः सीतां निवेशयामास भवने नन्दनोपमे अशोकवनिकाभ्याशे तापसाश्रमसंनिभे
MBh 3.264.42
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी उपवासतपःशीला तत्र सा पृथुलेक्षणा उवास दुःखवसतीः फलमूलकृताशना
MBh 3.264.43
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः प्रासासिशूलपरशुमुद्गरालातधारिणीः
MBh 3.264.44
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम्
MBh 3.264.45
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः परिवार्यासते सीतां दिवारात्रमतन्द्रिताः
MBh 3.264.46
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः
MBh 3.264.47
खादाम पाटयामैनां तिलशः प्रविभज्य ताम् येयं भर्तारमस्माकमवमन्येह जीवति
MBh 3.264.48
इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः
MBh 3.264.49
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्
MBh 3.264.50
अप्येवाहं निराहारा जीवितप्रियवर्जिता शोषयिष्यामि गात्राणि व्याली तालगता यथा
MBh 3.264.51
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते इति जानीत सत्यं मे क्रियतां यदनन्तरम्
MBh 3.264.52
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः
MBh 3.264.53
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी
MBh 3.264.54
सीते वक्ष्यामि ते किंचिद्विश्वासं कुरु मे सखि भयं ते व्येतु वामोरु शृणु चेदं वचो मम
MBh 3.264.55
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्
MBh 3.264.56
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च भर्ता ते कुशली रामो लक्ष्मणानुगतो बली
MBh 3.264.57
सख्यं वानरराजेन शक्रप्रतिमतेजसा कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः
MBh 3.264.58
मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते
MBh 3.264.59
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः
MBh 3.264.60
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति
MBh 3.264.61
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः
MBh 3.264.62
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः
MBh 3.264.63
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै
MBh 3.264.64
तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः
MBh 3.264.65
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः
MBh 3.264.66
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः श्वेतपर्वतमारूढ एक एव विभीषणः
MBh 3.264.67
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात्
MBh 3.264.68
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः
MBh 3.264.69
अस्थिसंचयमारूढो भुञ्जानो मधुपायसम् लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतो दिशः
MBh 3.264.70
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्
MBh 3.264.71
हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता राघवेण सह भ्रात्रा सीते त्वमचिरादिव
MBh 3.264.72
इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः बभूवाशावती बाला पुनर्भर्तृसमागमे
MBh 3.264.73
यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः ददृशुस्तां त्रिजटया सहासीनां यथा पुरा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 73 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.264local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷