🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 254

The Book of the Forest · Parva 3 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 3.254.1
वैशंपायन उवाच ततो घोरतरः शब्दो वने समभवत्तदा भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम्
MBh 3.254.2
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम् जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः
MBh 3.254.3
आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम्
MBh 3.254.4
द्रौपद्युवाच किं ते ज्ञातैर्मूढ महाधनुर्धरै;रनायुष्यं कर्म कृत्वातिघोरम् एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे
MBh 3.254.5
आख्यातव्यं त्वेव सर्वं मुमूर्षो;र्मया तुभ्यं पृष्टया धर्म एषः न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम्
MBh 3.254.6
यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति
MBh 3.254.7
य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे
MBh 3.254.8
अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः
MBh 3.254.9
अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः
MBh 3.254.10
आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम्
MBh 3.254.11
नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव
MBh 3.254.12
मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः भ्राता च शिष्यश्च युधिष्ठिरस्य; धनंजयो नाम पतिर्ममैषः
MBh 3.254.13
यो वै न कामान्न भयान्न लोभा;त्त्यजेद्धर्मं न नृशंसं च कुर्यात् स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी
MBh 3.254.14
यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे
MBh 3.254.15
प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः
MBh 3.254.16
यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु संख्ये शूरः कृतास्त्रो मतिमान्मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः
MBh 3.254.17
य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः
MBh 3.254.18
स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम् सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः
MBh 3.254.19
विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः
MBh 3.254.20
इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव
MBh 3.254.21
वैशंपायन उवाच ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा;स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.254local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷