🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 253

The Book of the Forest · Parva 3 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 3.253.1
वैशंपायन उवाच ततो दिशः संप्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः
MBh 3.253.2
ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम्
MBh 3.253.3
आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम्
MBh 3.253.4
क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च बुद्धिं समाच्छाद्य च मे समन्यु;रुद्धूयते प्राणपतिः शरीरे
MBh 3.253.5
सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः
MBh 3.253.6
ते सैन्धवैरत्यनिलौघवेगै;र्महाजवैर्वाजिभिरुह्यमानाः युक्तैर्बृहद्भिः सुरथैर्नृवीरा;स्तदाश्रमायाभिमुखा बभूवुः
MBh 3.253.7
तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च
MBh 3.253.8
यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम् सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य
MBh 3.253.9
इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः
MBh 3.253.10
तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम्
MBh 3.253.11
किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम्
MBh 3.253.12
यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् तस्या गमिष्यन्ति पदं हि पार्था;स्तथा हि संतप्यति धर्मराजः
MBh 3.253.13
को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम्
MBh 3.253.14
कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या
MBh 3.253.15
अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम् जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा
MBh 3.253.16
तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री
MBh 3.253.17
संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम्
MBh 3.253.18
पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम्
MBh 3.253.19
पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते
MBh 3.253.20
मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै
MBh 3.253.21
युधिष्ठिर उवाच भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति
MBh 3.253.22
वैशंपायन उवाच एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः
MBh 3.253.23
ततोऽपश्यंस्तस्य सैन्यस्य रेणु;मुद्धूतं वै वाजिखुरप्रणुन्नम् पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति
MBh 3.253.24
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः श्येना यथैवामिषसंप्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन्
MBh 3.253.25
तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च
MBh 3.253.26
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनंजयश्च यमौ च राजा च महाधनुर्धरा;स्ततो दिशः संमुमुहुः परेषाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.253local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷