🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 252

The Book of the Forest · Parva 3 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 3.252.1
वैशंपायन उवाच सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः
MBh 3.252.2
यशस्विनस्तीक्ष्णविषान्महारथा;नधिक्षिपन्मूढ न लज्जसे कथम् महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम्
MBh 3.252.3
न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर
MBh 3.252.4
अहं तु मन्ये तव नास्ति कश्चि;देतादृशे क्षत्रियसंनिवेशे यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत
MBh 3.252.5
नागं प्रभिन्नं गिरिकूटकल्प;मुपत्यकां हैमवतीं चरन्तम् दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम्
MBh 3.252.6
बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्
MBh 3.252.7
महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम्
MBh 3.252.8
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम्
MBh 3.252.9
यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः तथैव मां तैः परिरक्ष्यमाणा;मादास्यसे कर्कटकीव गर्भम्
MBh 3.252.10
जयद्रथ उवाच जानामि कृष्णे विदितं ममैत;द्यथाविधास्ते नरदेवपुत्राः न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य
MBh 3.252.11
वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः षड्भ्यो गुणेभ्योऽभ्यधिका विहीना;न्मन्यामहे द्रौपदि पाण्डुपुत्रान्
MBh 3.252.12
सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम्
MBh 3.252.13
द्रौपद्युवाच महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि याहं प्रमाथादिह संप्रतीता; सौवीरराजं कृपणं वदेयम्
MBh 3.252.14
यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ इन्द्रोऽपि तां नापहरेत्कथंचि;न्मनुष्यमात्रः कृपणः कुतोऽन्यः
MBh 3.252.15
यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु
MBh 3.252.16
जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः
MBh 3.252.17
मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति
MBh 3.252.18
गाण्डीवमुक्तांश्च महाशरौघा;न्पतंगसंघानिव शीघ्रवेगान् सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत्
MBh 3.252.19
गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश्च अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम
MBh 3.252.20
यथा चाहं नातिचरे कथंचि;त्पतीन्महार्हान्मनसापि जातु तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम्
MBh 3.252.21
न संभ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च
MBh 3.252.22
वैशंपायन उवाच सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा
MBh 3.252.23
जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः
MBh 3.252.24
प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा
MBh 3.252.25
धौम्य उवाच नेयं शक्या त्वया नेतुमविजित्य महारथान् धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ
MBh 3.252.26
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान्
MBh 3.252.27
वैशंपायन उवाच इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.252local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷