🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 255
The Book of the Forest · Parva 3 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 59 Shlokas
MBh 3.255.1
वैशंपायन उवाच
संतिष्ठत प्रहरत तूर्णं विपरिधावत
इति स्म सैन्धवो राजा चोदयामास तान्नृपान्
MBh 3.255.2
ततो घोरतरः शब्दो रणे समभवत्तदा
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान्
MBh 3.255.3
शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत
तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान्
MBh 3.255.4
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम्
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम्
MBh 3.255.5
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत्
महता रथवंशेन परिवार्य वृकोदरम्
MBh 3.255.6
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत
MBh 3.255.7
गजं तु सगजारोहं पदातींश्च चतुर्दश
जघान गदया भीमः सैन्धवध्वजिनीमुखे
MBh 3.255.8
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्
परीप्समानः सौवीरं जघान ध्वजिनीमुखे
MBh 3.255.9
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्
निमेषमात्रेण शतं जघान समरे तदा
MBh 3.255.10
ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक्
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः
MBh 3.255.11
सहदेवस्तु संयाय रथेन गजयोधिनः
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः
MBh 3.255.12
ततस्त्रिगर्तः सधनुरवतीर्य महारथात्
गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत्
MBh 3.255.13
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट्
MBh 3.255.14
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः
MBh 3.255.15
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्
हताश्वः सहदेवस्य प्रतिपेदे महारथम्
MBh 3.255.16
नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम्
MBh 3.255.17
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः
MBh 3.255.18
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः
रथमाक्षेपयामास गजेन गजयानवित्
MBh 3.255.19
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान्
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः
MBh 3.255.20
सुरथस्तं गजवरं वधाय नकुलस्य तु
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः
MBh 3.255.21
नकुलस्तस्य नागस्य समीपपरिवर्तिनः
सविषाणं भुजं मूले खड्गेन निरकृन्तत
MBh 3.255.22
स विनद्य महानादं गजः कङ्कणभूषणः
पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत्
MBh 3.255.23
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः
भीमसेनरथं प्राप्य शर्म लेभे महारथः
MBh 3.255.24
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः
MBh 3.255.25
न बुबोध हतं सूतं स राजा बाहुशालिना
तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः
MBh 3.255.26
विमुखं हतसूतं तं भीमः प्रहरतां वरः
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः
MBh 3.255.27
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः
चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च
MBh 3.255.28
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि
जघानातिरथः संख्ये बाणगोचरमागतान्
MBh 3.255.29
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः
MBh 3.255.30
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति
शरीराण्यशिरस्कानि विदेहानि शिरांसि च
MBh 3.255.31
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः
MBh 3.255.32
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत्
MBh 3.255.33
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै
प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः
MBh 3.255.34
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा
MBh 3.255.35
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे
आदिश्यादिश्य नाराचैराजघान वृकोदरः
MBh 3.255.36
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्
MBh 3.255.37
अर्जुन उवाच
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम्
MBh 3.255.38
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः
अनामिषमिदं कर्म कथं वा मन्यते भवान्
MBh 3.255.39
वैशंपायन उवाच
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत्
MBh 3.255.40
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः
MBh 3.255.41
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय
MBh 3.255.42
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः
MBh 3.255.43
युधिष्ठिर उवाच
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम्
MBh 3.255.44
वैशंपायन उवाच
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ
MBh 3.255.45
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः
MBh 3.255.46
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः
याचमानोऽपि संग्रामे न स जीवितुमर्हति
MBh 3.255.47
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः
राजा निववृते कृष्णामादाय सपुरोहितः
MBh 3.255.48
स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम्
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह
MBh 3.255.49
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः
समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः
MBh 3.255.50
ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम्
जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः
MBh 3.255.51
स तैः परिवृतो राजा तत्रैवोपविवेश ह
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी
MBh 3.255.52
भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम्
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्
MBh 3.255.53
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत्
MBh 3.255.54
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः
MBh 3.255.55
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्
MBh 3.255.56
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम्
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम्
MBh 3.255.57
सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत्
MBh 3.255.58
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्
राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे
MBh 3.255.59
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली
मा वधीरिति पार्थस्तं दयावानभ्यभाषत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 254
- Next chapter · Vana-Parva (Āraṇyaka) Ch 256 →
Sources and Connected Readings
Continue from these 59 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.255local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷