🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 222

The Book of the Forest · Parva 3 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 3.222.1
वैशंपायन उवाच उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु द्रौपदी सत्यभामा च विविशाते तदा समम् जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः
MBh 3.222.2
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम्
MBh 3.222.3
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा
MBh 3.222.4
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि लोकपालोपमान्वीरान्यूनः परमसंमतान् कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे
MBh 3.222.5
तव वश्या हि सततं पाण्डवाः प्रियदर्शने मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे
MBh 3.222.6
व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः
MBh 3.222.7
मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः
MBh 3.222.8
एवमुक्त्वा सत्यभामा विरराम यशस्विनी पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्
MBh 3.222.9
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
MBh 3.222.10
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया
MBh 3.222.11
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव
MBh 3.222.12
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात्
MBh 3.222.13
अमित्रप्रहितांश्चापि गदान्परमदारुणान् मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः
MBh 3.222.14
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्
MBh 3.222.15
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा
MBh 3.222.16
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन
MBh 3.222.17
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि
MBh 3.222.18
अहंकारं विहायाहं कामक्रोधौ च सर्वदा सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम्
MBh 3.222.19
प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी
MBh 3.222.20
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि
MBh 3.222.21
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः
MBh 3.222.22
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः
MBh 3.222.23
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि न संविशामि नाश्नामि सदा कर्मकरेष्वपि
MBh 3.222.24
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च
MBh 3.222.25
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी संयता गुप्तधान्या च सुसंमृष्टनिवेशना
MBh 3.222.26
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती अनुकूलवती नित्यं भवाम्यनलसा सदा
MBh 3.222.27
अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः अवस्करे चिरस्थानं निष्कुटेषु च वर्जये
MBh 3.222.28
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये निरताहं सदा सत्ये भर्तॄणामुपसेवने सर्वथा भर्तृरहितं न ममेष्टं कथंचन
MBh 3.222.29
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् सुमनोवर्णकापेता भवामि व्रतचारिणी
MBh 3.222.30
यच्च भर्ता न पिबति यच्च भर्ता न खादति यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्
MBh 3.222.31
यथोपदेशं नियता वर्तमाना वराङ्गने स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता
MBh 3.222.32
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु मान्यानां मानसत्कारा ये चान्ये विदिता मया
MBh 3.222.33
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता
MBh 3.222.34
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम्
MBh 3.222.35
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्
MBh 3.222.36
अहं पतीन्नातिशये नात्यश्ने नातिभूषये नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता
MBh 3.222.37
अवधानेन सुभगे नित्योत्थानतयैव च भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च
MBh 3.222.38
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् स्वयं परिचराम्येका स्नानाच्छादनभोजनैः
MBh 3.222.39
नैतामतिशये जातु वस्त्रभूषणभोजनैः नापि परिवदे चाहं तां पृथां पृथिवीसमाम्
MBh 3.222.40
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने
MBh 3.222.41
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः
MBh 3.222.42
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्
MBh 3.222.43
तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः यथार्हं पूजयामि स्म पानाच्छादनभोजनैः
MBh 3.222.44
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः
MBh 3.222.45
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः
MBh 3.222.46
तासां नाम च रूपं च भोजनाच्छादनानि च सर्वासामेव वेदाहं कर्म चैव कृताकृतम्
MBh 3.222.47
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत
MBh 3.222.48
शतमश्वसहस्राणि दश नागायुतानि च युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः
MBh 3.222.49
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् येषां संख्याविधिं चैव प्रदिशामि शृणोमि च
MBh 3.222.50
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम्
MBh 3.222.51
सर्वं राज्ञः समुदयमायं च व्ययमेव च एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम्
MBh 3.222.52
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः उपासनरताः सर्वे घटन्ते स्म शुभानने
MBh 3.222.53
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै
MBh 3.222.54
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्
MBh 3.222.55
अनिशायां निशायां च सहायाः क्षुत्पिपासयोः आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे
MBh 3.222.56
प्रथमं प्रतिबुध्यामि चरमं संविशामि च नित्यकालमहं सत्ये एतत्संवननं मम
MBh 3.222.57
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये
MBh 3.222.58
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्
MBh 3.222.59
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे कामकारः सखीनां हि सोपहासं प्रभाषितुम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.222local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷