🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 221

The Book of the Forest · Parva 3 · 80 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 80 Shlokas

MBh 3.221.1
मार्कण्डेय उवाच यदाभिषिक्तो भगवान्सेनापत्येन पावकिः तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः
MBh 3.221.2
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः
MBh 3.221.3
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः
MBh 3.221.4
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा
MBh 3.221.5
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह आस्थाय रुचिरं याति पुष्पकं नरवाहनः
MBh 3.221.6
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्
MBh 3.221.7
जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः
MBh 3.221.8
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः
MBh 3.221.9
यमश्च मृत्युना सार्धं सर्वतः परिवारितः घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा
MBh 3.221.10
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः
MBh 3.221.11
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः
MBh 3.221.12
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः
MBh 3.221.13
पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः
MBh 3.221.14
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः
MBh 3.221.15
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः
MBh 3.221.16
ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः
MBh 3.221.17
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः
MBh 3.221.18
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ
MBh 3.221.19
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्
MBh 3.221.20
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः
MBh 3.221.21
तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
MBh 3.221.22
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः
MBh 3.221.23
एभिः स सहितस्तत्र ययौ देवो यथासुखम् अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा
MBh 3.221.24
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम्
MBh 3.221.25
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः
MBh 3.221.26
अथाब्रवीन्महासेनं महादेवो बृहद्वचः सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः
MBh 3.221.27
स्कन्द उवाच सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो यदन्यदपि मे कार्यं देव तद्वद माचिरम्
MBh 3.221.28
रुद्र उवाच कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि
MBh 3.221.29
मार्कण्डेय उवाच इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् सहसैव महाराज देवान्सर्वान्प्रमोहयत्
MBh 3.221.30
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो
MBh 3.221.31
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा उमा चैव महाभागा देवाश्च समहर्षयः
MBh 3.221.32
ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् नानाप्रहरणं घोरमदृश्यत महद्बलम्
MBh 3.221.33
तद्धि घोरमसंख्येयं गर्जच्च विविधा गिरः अभ्यद्रवद्रणे देवान्भगवन्तं च शंकरम्
MBh 3.221.34
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः
MBh 3.221.35
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत
MBh 3.221.36
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् दानवैरर्दितं सैन्यं देवानां विमुखं बभौ
MBh 3.221.37
असुरैर्वध्यमानं तत्पावकैरिव काननम् अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा
MBh 3.221.38
ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः न नाथमध्यगच्छन्त वध्यमाना महारणे
MBh 3.221.39
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः आश्वासयन्नुवाचेदं बलवद्दानवार्दितम्
MBh 3.221.40
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत्
MBh 3.221.41
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् अभिद्रवत भद्रं वो मया सह महासुरान्
MBh 3.221.42
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम्
MBh 3.221.43
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह
MBh 3.221.44
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम्
MBh 3.221.45
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः
MBh 3.221.46
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः
MBh 3.221.47
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम्
MBh 3.221.48
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः संहतानि च तूर्याणि तदा सर्वाण्यनेकशः
MBh 3.221.49
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् देवानां दानवानां च मांसशोणितकर्दमम्
MBh 3.221.50
अनयो देवलोकस्य सहसैव व्यदृश्यत तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः
MBh 3.221.51
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः
MBh 3.221.52
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्
MBh 3.221.53
ते तं घनैरिवादित्यं दृष्ट्वा संपरिवारितम् समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः
MBh 3.221.54
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् पतता तेन गिरिणा देवसैन्यस्य पार्थिव भीमरूपेण निहतमयुतं प्रापतद्भुवि
MBh 3.221.55
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव
MBh 3.221.56
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः
MBh 3.221.57
ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम्
MBh 3.221.58
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः रेसतू रोदसी गाढं मुमुहुश्च महर्षयः
MBh 3.221.59
व्यनदंश्च महाकाया दैत्या जलधरोपमाः आसीच्च निश्चितं तेषां जितमस्माभिरित्युत
MBh 3.221.60
तथाभूते तु भगवान्नावधीन्महिषं रणे सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः
MBh 3.221.61
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् देवान्संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन्
MBh 3.221.62
ततस्तस्मिन्भये घोरे देवानां समुपस्थिते आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन्
MBh 3.221.63
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः
MBh 3.221.64
रथमादित्यसंकाशमास्थितः कनकप्रभम् तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे
MBh 3.221.65
स चापि तां प्रज्वलितां महिषस्य विदारिणीम् मुमोच शक्तिं राजेन्द्र महासेनो महाबलः
MBh 3.221.66
सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः
MBh 3.221.67
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः
MBh 3.221.68
प्रायः शरैर्विनिहता महासेनेन धीमता शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसंघशः
MBh 3.221.69
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः
MBh 3.221.70
तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान्
MBh 3.221.71
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान्
MBh 3.221.72
नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः
MBh 3.221.73
ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः देवास्तृणमया यस्य बभूवुर्जयतां वर सोऽयं त्वया महाबाहो शमितो देवकण्टकः
MBh 3.221.74
शतं महिषतुल्यानां दानवानां त्वया रणे निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः
MBh 3.221.75
तावकैर्भक्षिताश्चान्ये दानवाः शतसंघशः अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः
MBh 3.221.76
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज
MBh 3.221.77
महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः
MBh 3.221.78
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव
MBh 3.221.79
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः
MBh 3.221.80
स्कन्दस्य य इदं जन्म पठते सुसमाहितः स पुष्टिमिह संप्राप्य स्कन्दसालोक्यतामियात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 80 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.221local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷