🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 223
The Book of the Forest · Parva 3 · 12 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 12 Shlokas
MBh 3.223.1
[दरौ]
इमं तु ते मार्गम अपेतदॊषं; वक्ष्यामि चित्तग्रहणाय भर्तुः
यस्मिन यथावत सखिवर्तमाना; भर्तारम आच्छेत्स्यसि कामिनीभ्यः
MBh 3.223.2
नैतादृशं दैवतम अस्ति सत्ये; सर्वेषु लॊकेषु सदैवतेषु
यथा पतिस तस्य हि सर्वकामा; लभ्याः परसादे कुपितश च हन्यात
MBh 3.223.3
तस्माद अपत्यं विविधाश च भॊगाः; शय्यासनान्य अद्भुतदर्शनानि
वस्त्राणि माल्यानि तथैव गन्धाः; सवर्गश च लॊकॊ विषमा च कीर्तिः
MBh 3.223.4
सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि
सा कृष्णम आराधय सौहृदेन; परेम्णा च नित्यं परतिकर्मणा च
MBh 3.223.5
तथाशनैश चारुभिर अग्र्यमाल्यैर; दाक्षिण्ययॊगैर विविधैश च गन्धैः
अस्याः परियॊ ऽसमीति यथा विदित्वा; तवाम एव संश्लिष्यति सर्वभावैः
MBh 3.223.6
शरुत्वा सवरं दवारगतस्य भर्तुः; परत्युत्थिता तिष्ठ गृहस्य मध्ये
दृष्ट्वा परविष्टं तवरितासनेन; पाद्येन चैव परतिपूजय तवम
MBh 3.223.7
संप्रेषितायाम अथ चैव दास्याम; उत्थाय सर्वं सवयम एव कुर्याः
जानातु कृष्णस तव भावम एतं; सर्वात्मना मां भजतीति सत्ये
MBh 3.223.8
तवत्संनिधे यत कथयेत पतिस ते; यद्य अप्य अगुह्यं परिरक्षितव्यम
का चित सपत्नी तव वासुदेवं; परत्यादिशेत तेन भवेद विरागः
MBh 3.223.9
परियांश च रक्तांश च हितांश च भर्तुस; तान भॊजयेथा विविधैर उपायैः
दवेष्यैर अपक्षैर अहितैश च तस्य; भिद्यस्व नित्यं कुहकॊद्धतैश च
MBh 3.223.10
मदं परमादं पुरुषेषु हित्वा; संयच्छ भावं परतिगृह्य मौनम
परद्युम्न साम्बाव अपि ते कुमारौ; नॊपासितव्यौ रहिते कदा चित
MBh 3.223.11
महाकुलीनाभिर अपापिकाभिः; सत्रीभिः सतीभिस तव सख्यम अस्तु
चण्डाश च शौण्डाश च महाशनाश च; चौराश च दुष्टाश चपलाश च वर्ज्याः
MBh 3.223.12
एतद यशस्यं भग वेदनं च; सवर्ग्यं तथा शत्रुनिबर्हणं च
महार्हमाल्याभरणाङ्गरागा; भर्तारम आराधय पुण्यगन्धा
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 222
- Next chapter · Vana-Parva (Āraṇyaka) Ch 224 →
🪷 जय व्यास भगवान् 🪷