🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 201
The Book of the Forest · Parva 3 · 20 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 20 Shlokas
MBh 3.201.1
[मार्क]
एवम उक्तस तु विप्रेण धर्मव्याधॊ युधिष्ठिर
परत्युवाच यथा विप्रं तच छृणुष्व नराधिप
MBh 3.201.2
[वयध]
विज्ञानार्थं मनुष्याणां मनॊ पूर्वं परवर्तते
तत पराप्य कामं भजते करॊधं च दविजसत्तम
MBh 3.201.3
ततस तदर्थं यतते कर्म चारभते महत
इष्टानां रूपगन्धानाम अभ्यासं च निषेवते
MBh 3.201.4
ततॊ रागः परभवति दवेषश च तदनन्तरम
ततॊ लॊभः परभवति मॊहश च तदनन्तरम
MBh 3.201.5
तस्य लॊभाभिभूतस्य रागद्वेषहतस्य च
न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च
MBh 3.201.6
वयाजेन चरते धर्मम अर्थं वयाजेन रॊचते
वयाजेन सिध्यमानेषु धनेषु दविजसत्तम
तत्रैव रमते बुद्धिस ततः पापं चिकीर्षति
MBh 3.201.7
सुहृद्भिर वार्यमाणश च पण्डितैश च दविजॊत्तम
उत्तरं शरुतिसंबद्धं बरवीति शरुतियॊजितम
MBh 3.201.8
अधर्मस तरिविधस तस्य वर्धते रागदॊषतः
पापं चिन्तयते चापि बरवीति च करॊति च
MBh 3.201.9
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः
एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः
MBh 3.201.10
स तेनासुखम आप्नॊति परत्र च विहन्यते
पापात्मा भवति हय एवं धर्मलाभं तु मे शृणु
MBh 3.201.11
यस तव एतान परज्ञया दॊषान पूर्वम एवानुपश्यति
कुशलः सुखदुःखेषु साधूंश चाप्य उपसेवते
तस्य साधु समारम्भाद बुद्धिर धर्मेषु जायते
MBh 3.201.12
[बरा]
बरवीसि सूनृतं धर्मं यस्य वक्ता न विद्यते
दिव्यप्रभावः सुमहान ऋषिर एव मतॊ ऽसि मे
MBh 3.201.13
[वयध]
बराह्मणा वै महाभागाः पितरॊ ऽगरभुजः सदा
तेषां सर्वात्मना कार्यं परियं लॊके मनीषिणा
MBh 3.201.14
यत तेषां च परियं तत ते वक्ष्यामि दविजसत्तम
नमस्कृत्वा बराह्मणेभ्यॊ बराह्मीं विद्यां निबॊध मे
MBh 3.201.15
इदं विश्वं जगत सर्वम अजय्यं चापि सर्वशः
महाभूतात्मकं बरह्मन्नातः परतरं भवेत
MBh 3.201.16
महाभूतानि खं वायुर अग्निर आपस तथा च भूः
शब्दः सपर्शश च रूपं च रसॊ गन्धश च तद गुणाः
MBh 3.201.17
तेषाम अपि गुणाः सर्वे गुणवृत्तिः परस्परम
पूर्वपूर्व गुणाः सर्वे करमशॊ गुणिषु तरिषु
MBh 3.201.18
षष्ठस तु चेतना नाम मन इत्य अभिधीयते
सप्तमी तु भवेद बुद्धिर अहंकारस ततः परम
MBh 3.201.19
इन्द्रियाणि च पञ्चैव रजॊ सत्त्वं तमस तथा
इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः
MBh 3.201.20
सर्वैर इहेन्द्रियार्थैस तु वयक्ताव्यक्तैः सुसंवृतः
चतुर्विंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः
एतत ते सर्वम आख्यातं किं भूयॊ शरॊतुम इच्छसि
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 200
- Next chapter · Vana-Parva (Āraṇyaka) Ch 202 →
🪷 जय व्यास भगवान् 🪷