🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 202

The Book of the Forest · Parva 3 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 3.202.1
मार्कण्डेय उवाच एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत कथामकथयद्भूयो मनसः प्रीतिवर्धनीम्
MBh 3.202.2
ब्राह्मण महाभूतानि यान्याहुः पञ्च धर्मविदां वर एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद
MBh 3.202.3
व्याध उवाच भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्
MBh 3.202.4
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः
MBh 3.202.5
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः
MBh 3.202.6
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत
MBh 3.202.7
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च
MBh 3.202.8
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज
MBh 3.202.9
यदा तु विषमीभावमाचरन्ति चराचराः तदा देही देहमन्यं व्यतिरोहति कालतः
MBh 3.202.10
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम्
MBh 3.202.11
इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
MBh 3.202.12
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु इन्द्रियाणि यदा देही धारयन्निह तप्यते
MBh 3.202.13
लोके विततमात्मानं लोकं चात्मनि पश्यति परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति
MBh 3.202.14
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते
MBh 3.202.15
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते
MBh 3.202.16
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् अनौपम्यममूर्तं च भगवानाह बुद्धिमान् तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि
MBh 3.202.17
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ निगृहीतविसृष्टानि स्वर्गाय नरकाय च
MBh 3.202.18
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च
MBh 3.202.19
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते
MBh 3.202.20
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः
MBh 3.202.21
रथः शरीरं पुरुषस्य दृष्ट;मात्मा नियन्तेन्द्रियाण्याहुरश्वान् तैरप्रमत्तः कुशली सदश्वै;र्दान्तैः सुखं याति रथीव धीरः
MBh 3.202.22
षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः
MBh 3.202.23
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम्
MBh 3.202.24
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि
MBh 3.202.25
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.202local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷