🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 203
The Book of the Forest · Parva 3 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 3.203.1
मार्कण्डेय उवाच
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः
MBh 3.203.2
ब्राह्मण उवाच
सत्त्वस्य रजसश्चैव तमसश्च यथातथम्
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः
MBh 3.203.3
व्याध उवाच
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
एषां गुणान्पृथक्त्वेन निबोध गदतो मम
MBh 3.203.4
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते
MBh 3.203.5
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः
MBh 3.203.6
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः
MBh 3.203.7
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः
MBh 3.203.8
सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते
MBh 3.203.9
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत्
MBh 3.203.10
ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम्
न चास्य संयमो नाम क्वचिद्भवति कश्चन
MBh 3.203.11
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च
MBh 3.203.12
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि
MBh 3.203.13
ब्राह्मण उवाच
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः
MBh 3.203.14
मार्कण्डेय उवाच
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
व्याधः स कथयामास ब्राह्मणाय महात्मने
MBh 3.203.15
व्याध उवाच
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम्
MBh 3.203.16
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
मनो बुद्धिरहंकारो भूतानां विषयश्च सः
MBh 3.203.17
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः
MBh 3.203.18
बस्तिमूले गुदे चैव पावकः समुपाश्रितः
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते
MBh 3.203.19
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते
उदान इति तं प्राहुरध्यात्मविदुषो जनाः
MBh 3.203.20
संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते
MBh 3.203.21
धातुष्वग्निस्तु विततः स तु वायुसमीरितः
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति
MBh 3.203.22
प्राणानां संनिपातात्तु संनिपातः प्रजायते
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्
MBh 3.203.23
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः
MBh 3.203.24
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्
MBh 3.203.25
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
MBh 3.203.26
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः
MBh 3.203.27
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः
MBh 3.203.28
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु
MBh 3.203.29
एकादशविकारात्मा कलासंभारसंभृतः
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम्
MBh 3.203.30
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं योगजितात्मकम्
MBh 3.203.31
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम्
MBh 3.203.32
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम्
MBh 3.203.33
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त
MBh 3.203.34
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः
MBh 3.203.35
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते
MBh 3.203.36
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः
MBh 3.203.37
पूर्वरात्रे परे चैव युञ्जानः सततं मनः
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि
MBh 3.203.38
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते
MBh 3.203.39
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं यज्ञानां तपो वै संक्रमो मतः
MBh 3.203.40
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
MBh 3.203.41
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम्
MBh 3.203.42
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम्
MBh 3.203.43
यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
MBh 3.203.44
यतो न गुरुरप्येनं च्यावयेदुपपादयन्
तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम्
MBh 3.203.45
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्
MBh 3.203.46
आकिंचन्यं सुसंतोषो निराशित्वमचापलम्
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्
MBh 3.203.47
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च
MBh 3.203.48
तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
MBh 3.203.49
गुणागुणमनासङ्गमेककार्यमनन्तरम्
एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम्
MBh 3.203.50
परित्यजति यो दुःखं सुखं चाप्युभयं नरः
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति
MBh 3.203.51
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 202
- Next chapter · Vana-Parva (Āraṇyaka) Ch 204 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.203local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷