🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 2

The Book of the Forest · Parva 3 · 79 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 79 Shlokas

MBh 3.2.1
वैशंपायन उवाच प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः
MBh 3.2.2
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः फलमूलामिषाहारा वनं यास्याम दुःखिताः
MBh 3.2.3
वनं च दोषबहुलं बहुव्यालसरीसृपम् परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति
MBh 3.2.4
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः
MBh 3.2.5
ब्राह्मणा ऊचुः गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः
MBh 3.2.6
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु
MBh 3.2.7
युधिष्ठिर उवाच ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः सहायविपरिभ्रंशस्त्वयं सादयतीव माम्
MBh 3.2.8
आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः
MBh 3.2.9
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे
MBh 3.2.10
ब्राह्मणा ऊचुः अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम्
MBh 3.2.11
अनुध्यानेन जप्येन विधास्यामः शिवं तव कथाभिश्चानुकूलाभिः सह रंस्यामहे वने
MBh 3.2.12
युधिष्ठिर उवाच एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः
MBh 3.2.13
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्
MBh 3.2.14
वैशंपायन उवाच इत्युक्त्वा स नृपः शोचन्निषसाद महीतले तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः योगे सांख्ये च कुशलो राजानमिदमब्रवीत्
MBh 3.2.15
शोकस्थानसहस्राणि भयस्थानशतानि च दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
MBh 3.2.16
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
MBh 3.2.17
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता
MBh 3.2.18
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः
MBh 3.2.19
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा आत्मव्यवस्थानकरा गीताः श्लोका महात्मना
MBh 3.2.20
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु
MBh 3.2.21
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते
MBh 3.2.22
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु
MBh 3.2.23
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम्
MBh 3.2.24
मानसेन हि दुःखेन शरीरमुपतप्यते अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्
MBh 3.2.25
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति
MBh 3.2.26
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च
MBh 3.2.27
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते
MBh 3.2.28
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः
MBh 3.2.29
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत्
MBh 3.2.30
विप्रयोगे न तु त्यागी दोषदर्शी समागमात् विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः
MBh 3.2.31
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत्
MBh 3.2.32
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्
MBh 3.2.33
रागाभिभूतः पुरुषः कामेन परिकृष्यते इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते
MBh 3.2.34
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् अधर्मबहुला चैव घोरा पापानुबन्धिनी
MBh 3.2.35
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्
MBh 3.2.36
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् विनाशयति संभूता अयोनिज इवानलः
MBh 3.2.37
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति तथाकृतात्मा लोभेन सहजेन विनश्यति
MBh 3.2.38
राजतः सलिलादग्नेश्चोरतः स्वजनादपि भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव
MBh 3.2.39
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान्
MBh 3.2.40
अर्थ एव हि केषांचिदनर्थो भविता नृणाम् अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः
MBh 3.2.41
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्
MBh 3.2.42
अर्थस्योपार्जने दुःखं पालने च क्षये तथा नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्
MBh 3.2.43
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत्
MBh 3.2.44
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्
MBh 3.2.45
तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः
MBh 3.2.46
त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः
MBh 3.2.47
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्
MBh 3.2.48
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः
MBh 3.2.49
युधिष्ठिर उवाच नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः
MBh 3.2.50
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे भरणं पालनं चापि न कुर्यादनुयायिनाम्
MBh 3.2.51
संविभागो हि भूतानां सर्वेषामेव शिष्यते तथैवापचमानेभ्यः प्रदेयं गृहमेधिना
MBh 3.2.52
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
MBh 3.2.53
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् तृषितस्य च पानीयं क्षुधितस्य च भोजनम्
MBh 3.2.54
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम्
MBh 3.2.55
अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः
MBh 3.2.56
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्
MBh 3.2.57
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते
MBh 3.2.58
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम्
MBh 3.2.59
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे
MBh 3.2.60
शौनक उवाच अहो बत महत्कष्टं विपरीतमिदं जगत् येनापत्रपते साधुरसाधुस्तेन तुष्यति
MBh 3.2.61
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः
MBh 3.2.62
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः विमूढसंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः
MBh 3.2.63
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः
MBh 3.2.64
मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते
MBh 3.2.65
ततः संकल्पवीर्येण कामेन विषयेषुभिः विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतंगवत्
MBh 3.2.66
ततो विहारैराहारैर्मोहितश्च विशां पते महामोहमुखे मग्नो नात्मानमवबुध्यते
MBh 3.2.67
एवं पतति संसारे तासु तास्विह योनिषु अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्
MBh 3.2.68
ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते जले भुवि तथाकाशे जायमानः पुनः पुनः
MBh 3.2.69
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः
MBh 3.2.70
यदिदं वेदवचनं कुरु कर्म त्यजेति च तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्
MBh 3.2.71
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः
MBh 3.2.72
तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्
MBh 3.2.73
उत्तरो देवयानस्तु सद्भिराचरितः सदा अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्
MBh 3.2.74
सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्
MBh 3.2.75
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् एवं कर्माणि कुर्वन्ति संसारविजिगीषवः
MBh 3.2.76
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः
MBh 3.2.77
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत
MBh 3.2.78
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै
MBh 3.2.79
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 79 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.2local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷