🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 1
The Book of the Forest · Parva 3 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 3.1.1
जनमेजय उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम
MBh 3.1.2
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्
किमकुर्वन्त कौरव्या मम पूर्वपितामहाः
MBh 3.1.3
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः
MBh 3.1.4
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्
किमाहाराः किमाचाराः क्व च वासो महात्मनाम्
MBh 3.1.5
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्
MBh 3.1.6
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्
पतिव्रता महाभागा सततं सत्यवादिनी
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत
MBh 3.1.7
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे
MBh 3.1.8
वैशंपायन उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्
MBh 3.1.9
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया
MBh 3.1.10
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः
MBh 3.1.11
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्
MBh 3.1.12
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः
यत्र दुर्योधनः पापः सौबलेयेन पालितः
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति
MBh 3.1.13
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्
यत्र पापसहायोऽयं पापो राज्यं बुभूषते
MBh 3.1.14
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः
MBh 3.1.15
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः
MBh 3.1.16
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः
MBh 3.1.17
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान्
MBh 3.1.18
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ
MBh 3.1.19
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः
उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ
MBh 3.1.20
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान्
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः
MBh 3.1.21
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः
शुभाशुभाधिवासेन संसर्गं कुरुते यथा
MBh 3.1.22
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः
MBh 3.1.23
मोहजालस्य योनिर्हि मूढैरेव समागमः
अहन्यहनि धर्मस्य योनिः साधुसमागमः
MBh 3.1.24
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः
MBh 3.1.25
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च
तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी
MBh 3.1.26
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्
MBh 3.1.27
असतां दर्शनात्स्पर्शात्संजल्पनसहासनात्
धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः
MBh 3.1.28
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः
MBh 3.1.29
ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः
लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः
MBh 3.1.30
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः
MBh 3.1.31
युधिष्ठिर उवाच
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः
MBh 3.1.32
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया
MBh 3.1.33
भीष्मः पितामहो राजा विदुरो जननी च मे
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये
MBh 3.1.34
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः
युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः
MBh 3.1.35
निवर्ततागता दूरं समागमनशापिताः
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः
MBh 3.1.36
एतद्धि मम कार्याणां परमं हृदि संस्थितम्
सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति
MBh 3.1.37
वैशंपायन उवाच
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः
MBh 3.1.38
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान्
MBh 3.1.39
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्
MBh 3.1.40
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः
MBh 3.1.41
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः
MBh 3.1.42
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे
ब्रह्मघोषपुरस्कारः संजल्पः समजायत
MBh 3.1.43
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 72
- Next chapter · Vana-Parva (Āraṇyaka) Ch 2 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.1local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷