🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 195
The Book of the Forest · Parva 3 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 39 Shlokas
MBh 3.195.1
मार्कण्डेय उवाच
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः
स तपोऽतप्यत महन्महावीर्यपराक्रमः
MBh 3.195.2
अतिष्ठदेकपादेन कृशो धमनिसंततः
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो
MBh 3.195.3
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्
अवध्योऽहं भवेयं वै वर एष वृतो मया
MBh 3.195.4
एवं भवतु गच्छेति तमुवाच पितामहः
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह
MBh 3.195.5
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः
अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत्
MBh 3.195.6
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः
बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम्
MBh 3.195.7
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ
बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो
MBh 3.195.8
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः
MBh 3.195.9
शेते लोकविनाशाय तपोबलसमाश्रितः
उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः
MBh 3.195.10
एतस्मिन्नेव काले तु सभृत्यबलवाहनः
कुवलाश्वो नरपतिरन्वितो बलशालिनाम्
MBh 3.195.11
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम्
MBh 3.195.12
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया
MBh 3.195.13
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति
MBh 3.195.14
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्
देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः
MBh 3.195.15
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः
MBh 3.195.16
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः
MBh 3.195.17
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः
देवगन्धर्वसहिताः समवैक्षन्महर्षयः
MBh 3.195.18
नारायणेन कौरव्य तेजसाप्यायितस्तदा
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम्
MBh 3.195.19
अर्णवं खानयामास कुवलाश्वो महीपतिः
कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे
MBh 3.195.20
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत्
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ
MBh 3.195.21
ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम्
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः
MBh 3.195.22
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि
पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः
MBh 3.195.23
स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च
MBh 3.195.24
आस्याद्वमन्पावकं स संवर्तकसमं तदा
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा
MBh 3.195.25
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत्
MBh 3.195.26
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्
आससाद महातेजाः कुवलाश्वो महीपतिः
MBh 3.195.27
तस्य वारि महाराज सुस्राव बहु देहतः
तदापीयत तत्तेजो राजा वारिमयं नृप
योगी योगेन वह्निं च शमयामास वारिणा
MBh 3.195.28
ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम्
ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै
MBh 3.195.29
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्
सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः
MBh 3.195.30
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा
अतीव मुदितो राजन्निदं वचनमब्रवीत्
MBh 3.195.31
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च
धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः
MBh 3.195.32
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः
ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता
MBh 3.195.33
सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम्
देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे
MBh 3.195.34
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन्
दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्
MBh 3.195.35
एवं स निहतस्तेन कुवलाश्वेन सत्तम
धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः
MBh 3.195.36
कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः
नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत्
MBh 3.195.37
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा
MBh 3.195.38
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः
MBh 3.195.39
आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु
न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 194
- Next chapter · Vana-Parva (Āraṇyaka) Ch 196 →
Sources and Connected Readings
Continue from these 39 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.195local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷