🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 194

The Book of the Forest · Parva 3 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 3.194.1
मार्कण्डेय उवाच स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत्
MBh 3.194.2
न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः
MBh 3.194.3
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि प्रियं वै सर्वमेतत्ते करिष्यति न संशयः
MBh 3.194.4
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि सांप्रतम्
MBh 3.194.5
तथास्त्विति च तेनोक्तो मुनिनामिततेजसा स तमादिश्य तनयमुत्तङ्काय महात्मने क्रियतामिति राजर्षिर्जगाम वनमुत्तमम्
MBh 3.194.6
युधिष्ठिर उवाच क एष भगवन्दैत्यो महावीर्यस्तपोधन कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम्
MBh 3.194.7
एवं महाबलो दैत्यो न श्रुतो मे तपोधन एतदिच्छामि भगवन्याथातथ्येन वेदितुम् सर्वमेव महाप्राज्ञ विस्तरेण तपोधन
MBh 3.194.8
मार्कण्डेय उवाच शृणु राजन्निदं सर्वं यथावृत्तं नराधिप एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ
MBh 3.194.9
प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह नागस्य भोगे महति शेषस्यामिततेजसः
MBh 3.194.10
लोककर्ता महाभाग भगवानच्युतो हरिः नागभोगेन महता परिरभ्य महीमिमाम्
MBh 3.194.11
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे
MBh 3.194.12
चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः
MBh 3.194.13
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम्
MBh 3.194.14
शयानं शयने दिव्ये नागभोगे महाद्युतिम् बहुयोजनविस्तीर्णे बहुयोजनमायते
MBh 3.194.15
किरीटकौस्तुभधरं पीतकौशेयवाससम् दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम्
MBh 3.194.16
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम्
MBh 3.194.17
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः
MBh 3.194.18
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते
MBh 3.194.19
तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ प्रत्यब्रूतां महाराज सहितौ मधुसूदनम्
MBh 3.194.20
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन्
MBh 3.194.21
भगवानुवाच प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान्
MBh 3.194.22
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै
MBh 3.194.23
मधुकैटभावूचतुः अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम
MBh 3.194.24
बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ धर्मे तपसि दाने च शीलसत्त्वदमेषु च
MBh 3.194.25
उपप्लवो महानस्मानुपावर्तत केशव उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः
MBh 3.194.26
आवामिच्छावहे देव कृतमेकं त्वया विभो अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम
MBh 3.194.27
पुत्रत्वमभिगच्छाव तव चैव सुलोचन वर एष वृतो देव तद्विद्धि सुरसत्तम
MBh 3.194.28
भगवानुवाच बाढमेवं करिष्यामि सर्वमेतद्भविष्यति
MBh 3.194.29
मार्कण्डेय उवाच विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः
MBh 3.194.30
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा मधुकैटभयो राजञ्शिरसी मधुसूदनः चक्रेण शितधारेण न्यकृन्तत महायशाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.194local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷