🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 180
The Book of the Forest · Parva 3 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 3.180.1
वैशंपायन उवाच
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया
MBh 3.180.2
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन्
MBh 3.180.3
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः
MBh 3.180.4
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः
MBh 3.180.5
बहुवत्सरजीवी च मार्कण्डेयो महातपाः
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति
MBh 3.180.6
तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः
MBh 3.180.7
मघवानिव पौलोम्या सहितः सत्यभामया
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्
MBh 3.180.8
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम्
MBh 3.180.9
पूजयामास धौम्यं च यमाभ्यामभिवादितः
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत्
MBh 3.180.10
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम्
MBh 3.180.11
तथैव सत्यभामापि द्रौपदीं परिषस्वजे
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया
MBh 3.180.12
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः
MBh 3.180.13
कृष्णस्तु पार्थेन समेत्य विद्वा;न्धनंजयेनासुरतर्जनेन
बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन
MBh 3.180.14
ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय
उक्त्वा यथावत्पुनरन्वपृच्छ;त्कथं सुभद्रा च तथाभिमन्युः
MBh 3.180.15
स पूजयित्वा मधुहा यथाव;त्पार्थांश्च कृष्णां च पुरोहितं च
उवाच राजानमभिप्रशंस;न्युधिष्ठिरं तत्र सहोपविश्य
MBh 3.180.16
धर्मः परः पाण्डव राज्यलाभा;त्तस्यार्थमाहुस्तप एव राजन्
सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः
MBh 3.180.17
अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम्
क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः
MBh 3.180.18
न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किंचित्कुरुषे नरेन्द्र
न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः
MBh 3.180.19
दानं च सत्यं च तपश्च राज;ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च
अवाप्य राष्ट्राणि वसूनि भोगा;नेषा परा पार्थ सदा रतिस्ते
MBh 3.180.20
यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत्
अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः
MBh 3.180.21
असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक्
इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता
MBh 3.180.22
धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः
उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः
MBh 3.180.23
प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः
कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः
सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि
MBh 3.180.24
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च
न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति
MBh 3.180.25
आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः
तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे
MBh 3.180.26
यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती
तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा
MBh 3.180.27
यथानिरुद्धस्य यथाभिमन्यो;र्यथा सुनीथस्य यथैव भानोः
तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः
MBh 3.180.28
गदासिचर्मग्रहणेषु शूरा;नस्त्रेषु शिक्षासु रथाश्वयाने
सम्यग्विनेता विनयत्यतन्द्री;स्तांश्चाभिमन्युः सततं कुमारः
MBh 3.180.29
स चापि सम्यक्प्रणिधाय शिक्षा;मस्त्राणि चैषां गुरुवत्प्रदाय
तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः
MBh 3.180.30
यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि
एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च
MBh 3.180.31
अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च
एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन्
MBh 3.180.32
आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम्
सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा
MBh 3.180.33
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः
स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम्
MBh 3.180.34
कामं तथा तिष्ठ नरेन्द्र तस्मि;न्यथा कृतस्ते समयः सभायाम्
दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम्
MBh 3.180.35
व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम्
ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम्
MBh 3.180.36
ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन
प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच
MBh 3.180.37
असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः
कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति
MBh 3.180.38
यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु
अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः
MBh 3.180.39
वैशंपायन उवाच
तथा वदति वार्ष्णेये धर्मराजे च भारत
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः
MBh 3.180.40
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः
MBh 3.180.41
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः
MBh 3.180.42
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः
द्रौपदी सत्यभामा च तथाहं परमं वचः
MBh 3.180.43
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः
MBh 3.180.44
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः
आजगाम विशुद्धात्मा पाण्डवानवलोककः
MBh 3.180.45
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम्
MBh 3.180.46
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत
MBh 3.180.47
उवाच चैनं कालज्ञः स्मयन्निव स नारदः
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम्
MBh 3.180.48
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति
MBh 3.180.49
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः
मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 179
- Next chapter · Vana-Parva (Āraṇyaka) Ch 181 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.180local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷