🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 181

The Book of the Forest · Parva 3 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 3.181.1
वैशंपायन उवाच तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् कथासंजननार्थाय चोदयामास पाण्डवः
MBh 3.181.2
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् राजर्षीणां च सर्वेषां चरितज्ञः सनातनः
MBh 3.181.3
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः
MBh 3.181.4
भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः
MBh 3.181.5
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः
MBh 3.181.6
अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर इह वा कृतमन्वेति परदेहेऽथ वा पुनः
MBh 3.181.7
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम
MBh 3.181.8
ऐहलौकिकमेवैतदुताहो पारलौकिकम् क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव
MBh 3.181.9
मार्कण्डेय उवाच त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि
MBh 3.181.10
अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु यथेहामुत्र च नरः सुखदुःखमुपाश्नुते
MBh 3.181.11
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः
MBh 3.181.12
अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन
MBh 3.181.13
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः
MBh 3.181.14
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः
MBh 3.181.15
द्रष्टारो देवसंघानामृषीणां च महात्मनाम् प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः
MBh 3.181.16
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः
MBh 3.181.17
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः
MBh 3.181.18
अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः
MBh 3.181.19
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः
MBh 3.181.20
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः
MBh 3.181.21
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति
MBh 3.181.22
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु
MBh 3.181.23
अयमादिशरीरेण देवसृष्टेन मानवः शुभानामशुभानां च कुरुते संचयं महत्
MBh 3.181.24
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् संभवत्येव युगपद्योनौ नास्त्यन्तराभवः
MBh 3.181.25
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते
MBh 3.181.26
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः
MBh 3.181.27
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्
MBh 3.181.28
मनुष्यास्तप्ततपसः सर्वागमपरायणाः स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः
MBh 3.181.29
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः
MBh 3.181.30
जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः
MBh 3.181.31
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्
MBh 3.181.32
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा
MBh 3.181.33
इमामत्रोपमां चापि निबोध वदतां वर मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर
MBh 3.181.34
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह इह चामुत्र चैकस्य नामुत्रैकस्य नो इह
MBh 3.181.35
धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम्
MBh 3.181.36
ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् जितेन्द्रिया भूतहिते निविष्टा;स्तेषामसौ नायमरिघ्न लोकः
MBh 3.181.37
ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः
MBh 3.181.38
ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते न चाधिगच्छन्ति सुखान्यभाग्या;स्तेषामयं चैव परश्च नास्ति
MBh 3.181.39
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः
MBh 3.181.40
कृत्वैव कर्माणि महान्ति शूरा;स्तपोदमाचारविहारशीलाः देवानृषीन्प्रेतगणांश्च सर्वा;न्संतर्पयित्वा विधिना परेण
MBh 3.181.41
स्वर्गं परं पुण्यकृतां निवासं; क्रमेण संप्राप्स्यथ कर्मभिः स्वैः मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.181local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷