🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 18

The Book of the Forest · Parva 3 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 24 Shlokas

MBh 3.18.1
वासुदेव उवाच एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्
MBh 3.18.2
उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम् उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान्
MBh 3.18.3
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्
MBh 3.18.4
स विद्युच्चलितं चापं विहरन्वै तलात्तलम् मोहयामास दैतेयान्सर्वान्सौभनिवासिनः
MBh 3.18.5
नास्य विक्षिपतश्चापं संदधानस्य चासकृत् अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे
MBh 3.18.6
मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम्
MBh 3.18.7
जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः
MBh 3.18.8
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप
MBh 3.18.9
अभियानं तु वीरेण प्रद्युम्नेन महाहवे नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह
MBh 3.18.10
स रोषमदमत्तो वै कामगादवरुह्य च प्रद्युम्नं योधयामास शाल्वः परपुरंजयः
MBh 3.18.11
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः समेता ददृशुर्लोका बलिवासवयोरिव
MBh 3.18.12
तस्य मायामयो वीर रथो हेमपरिष्कृतः सध्वजः सपताकश्च सानुकर्षः सतूणवान्
MBh 3.18.13
स तं रथवरं श्रीमान्समारुह्य किल प्रभो मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः
MBh 3.18.14
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव
MBh 3.18.15
स तैरभिहतः संख्ये नामर्षयत सौभराट् शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम
MBh 3.18.16
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः मुमोच बाणं त्वरितो मर्मभेदिनमाहवे
MBh 3.18.17
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः बिभेद हृदयं पत्री स पपात मुमोह च
MBh 3.18.18
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम्
MBh 3.18.19
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते नष्टसंज्ञे निपतिते तदा सौभपतौ नृप
MBh 3.18.20
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् मुमोच बाणं तरसा प्रद्युम्नाय महाबलः
MBh 3.18.21
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा
MBh 3.18.22
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् ननाद सिंहनादं वै नादेनापूरयन्महीम्
MBh 3.18.23
ततो मोहं समापन्ने तनये मम भारत मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान्
MBh 3.18.24
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 24 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.18local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷