🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 19
The Book of the Forest · Parva 3 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 3.19.1
वासुदेव उवाच
शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः
MBh 3.19.2
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा
प्रद्युम्ने पतिते राजन्परे च मुदिताभवन्
MBh 3.19.3
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः
MBh 3.19.4
नातिदूरापयाते तु रथे रथवरप्रणुत्
धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम्
MBh 3.19.5
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते
MBh 3.19.6
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम्
MBh 3.19.7
सूत उवाच
जानार्दने न मे मोहो नापि मे भयमाविशत्
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन
MBh 3.19.8
सोऽपयामि शनैर्वीर बलवानेष पापकृत्
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी
MBh 3.19.9
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम्
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम्
MBh 3.19.10
एकश्चासि महाबाहो बहवश्चापि दानवाः
नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम्
MBh 3.19.11
वासुदेव उवाच
एवं ब्रुवति सूते तु तदा मकरकेतुमान्
उवाच सूतं कौरव्य निवर्तय रथं पुनः
MBh 3.19.12
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन
व्यपयानं रणात्सौते जीवतो मम कर्हिचित्
MBh 3.19.13
न स वृष्णिकुले जातो यो वै त्यजति संगरम्
यो वा निपतितं हन्ति तवास्मीति च वादिनम्
MBh 3.19.14
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा
MBh 3.19.15
त्वं च सूतकुले जातो विनीतः सूतकर्मणि
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके
MBh 3.19.16
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे
अपयानं पुनः सौते मैवं कार्षीः कथंचन
MBh 3.19.17
अपयातं हतं पृष्ठे भीतं रणपलायिनम्
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः
MBh 3.19.18
केशवस्याग्रजो वापि नीलवासा मदोत्कटः
किं वक्ष्यति महाबाहुर्बलदेवः समागतः
MBh 3.19.19
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः
अपयातं रणात्सौते साम्बश्च समितिंजयः
MBh 3.19.20
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे
MBh 3.19.21
शूरं संभावितं सन्तं नित्यं पुरुषमानिनम्
स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः
MBh 3.19.22
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति
MBh 3.19.23
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः
MBh 3.19.24
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः
यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः
MBh 3.19.25
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज
MBh 3.19.26
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम्
MBh 3.19.27
उपयातं दुराधर्षं शङ्खचक्रगदाधरम्
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम्
MBh 3.19.28
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम्
MBh 3.19.29
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः
त्वयापनीतो विवशो न जीवेयं कथंचन
MBh 3.19.30
स निवर्त रथेनाशु पुनर्दारुकनन्दन
न चैतदेवं कर्तव्यमथापत्सु कथंचन
MBh 3.19.31
न जीवितमहं सौते बहु मन्ये कदाचन
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः
MBh 3.19.32
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम्
अपयातं रणं हित्वा यथा कापुरुषं तथा
MBh 3.19.33
न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 18
- Next chapter · Vana-Parva (Āraṇyaka) Ch 20 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.19local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷