🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 17
The Book of the Forest · Parva 3 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 3.17.1
वासुदेव उवाच
तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा
प्रभूतनरनागेन बलेनोपविवेश ह
MBh 3.17.2
समे निविष्टा सा सेना प्रभूतसलिलाशये
चतुरङ्गबलोपेता शाल्वराजाभिपालिता
MBh 3.17.3
वर्जयित्वा श्मशानानि देवतायतनानि च
वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम्
MBh 3.17.4
अनीकानां विभागेन पन्थानः षट्कृताभवन्
प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप
MBh 3.17.5
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्
रथनागाश्वकलिलं पदातिध्वजसंकुलम्
MBh 3.17.6
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम्
विचित्रध्वजसंनाहं विचित्ररथकार्मुकम्
MBh 3.17.7
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ
अभिसारयामास तदा वेगेन पतगेन्द्रवत्
MBh 3.17.8
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः
MBh 3.17.9
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः
MBh 3.17.10
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः
संसक्ताः शाल्वराजस्य बहुभिर्योधपुंगवैः
MBh 3.17.11
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम्
MBh 3.17.12
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत्
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक्
MBh 3.17.13
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः
MBh 3.17.14
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह
मुमोच मायाविहितं शरजालं महत्तरम्
MBh 3.17.15
ततो मायामयं जालं माययैव विदार्य सः
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत
MBh 3.17.16
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः
MBh 3.17.17
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली
MBh 3.17.18
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन्
MBh 3.17.19
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्
चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः
MBh 3.17.20
तया त्वभिहतो राजन्वेगवानपतद्भुवि
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः
MBh 3.17.21
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे
प्रविश्य महतीं सेनां योधयामास मे सुतः
MBh 3.17.22
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः
महारथः समाज्ञातो महाराज महाधनुः
MBh 3.17.23
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत्
MBh 3.17.24
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः
विनदन्तौ महाराज सिंहाविव महाबलौ
MBh 3.17.25
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम्
MBh 3.17.26
स विविन्ध्याय सक्रोधः समाहूय महारथः
चिक्षेप मे सुतो राजन्स गतासुरथापतत्
MBh 3.17.27
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम्
कामगेन स सौभेन शाल्वः पुनरुपागमत्
MBh 3.17.28
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्
दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम्
MBh 3.17.29
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम्
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत्
MBh 3.17.30
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि
निवारयन्तं संग्रामे बलात्सौभं सराजकम्
MBh 3.17.31
अहं सौभपतेः सेनामायसैर्भुजगैरिव
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः
MBh 3.17.32
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति
MBh 3.17.33
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन
विष्ठितं तद्बलं वीर युयुधे च यथासुखम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 16
- Next chapter · Vana-Parva (Āraṇyaka) Ch 18 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.17local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷