🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 146
The Book of the Forest · Parva 3 · 81 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 81 Shlokas
MBh 3.146.1
वैशंपायन उवाच
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः
MBh 3.146.2
मनोज्ञे काननवरे सर्वभूतमनोरमे
पादपैः पुष्पविकचैः फलभारावनामितैः
MBh 3.146.3
शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
MBh 3.146.4
सरांसि च विचित्राणि प्रसन्नसलिलानि च
कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः
MBh 3.146.5
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः
ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान्
MBh 3.146.6
ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया
सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत्
MBh 3.146.7
तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम्
अनिलेनाहृतं भूमौ पतितं जलजं शुचि
MBh 3.146.8
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
अतीव मुदिता राजन्भीमसेनमथाब्रवीत्
MBh 3.146.9
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम्
MBh 3.146.10
एतत्तु धर्मराजाय प्रदास्यामि परंतप
हरेरिदं मे कामाय काम्यके पुनराश्रमे
MBh 3.146.11
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्
MBh 3.146.12
एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता
जगाम धर्मराजाय पुष्पमादाय तत्तदा
MBh 3.146.13
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
प्रियायाः प्रियकामः स भीमो भीमपराक्रमः
MBh 3.146.14
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि
MBh 3.146.15
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः
MBh 3.146.16
द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः
व्यपेतभयसंमोहः शैलमभ्यपतद्बली
MBh 3.146.17
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्
गिरिं चचारारिहरः किंनराचरितं शुभम्
MBh 3.146.18
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम्
MBh 3.146.19
सर्वर्तुरमणीयेषु गन्धमादनसानुषु
सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन्
MBh 3.146.20
पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
MBh 3.146.21
जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम्
गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः
MBh 3.146.22
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः
पितुः संस्पर्शशीतेन गन्धमादनवायुना
MBh 3.146.23
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
विलोडयामास तदा पुष्पहेतोररिंदमः
MBh 3.146.24
विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
MBh 3.146.25
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
MBh 3.146.26
अभिरामनदीकुञ्जनिर्झरोदरकन्दरम्
अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम्
MBh 3.146.27
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्
स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः
MBh 3.146.28
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः
भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः
MBh 3.146.29
चालयन्नूरुवेगेन लताजालान्यनेकशः
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ
MBh 3.146.30
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः
प्रांशुः कनकतालाभः सिंहसंहननो युवा
MBh 3.146.31
मत्तवारणविक्रान्तो मत्तवारणवेगवान्
मत्तवारणताम्राक्षो मत्तवारणवारणः
MBh 3.146.32
प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः
MBh 3.146.33
नवावतारं रूपस्य विक्रीणन्निव पाण्डवः
चचार रमणीयेषु गन्धमादनसानुषु
MBh 3.146.34
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
MBh 3.146.35
सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते
पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः
MBh 3.146.36
स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः
MBh 3.146.37
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः
MBh 3.146.38
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु
त्रासयन्गजयूथानि वातरंहा वृकोदरः
MBh 3.146.39
सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली
MBh 3.146.40
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः
विनर्दमानोऽतिभृशं सविद्युदिव तोयदः
MBh 3.146.41
तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो
त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः
MBh 3.146.42
अथापश्यन्महाबाहुर्गन्धमादनसानुषु
सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम्
MBh 3.146.43
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान्
MBh 3.146.44
उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान्
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः
MBh 3.146.45
ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च
रुरुवारणसंघाश्च महिषाश्च जलाश्रयाः
MBh 3.146.46
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमभिद्रवन्
व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः
MBh 3.146.47
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः
गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली
MBh 3.146.48
ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः
भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः
MBh 3.146.49
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः
MBh 3.146.50
तेन शब्देन चोग्रेण भीमसेनरवेण च
वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः
MBh 3.146.51
तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम्
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः
MBh 3.146.52
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः
MBh 3.146.53
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः
वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः
MBh 3.146.54
तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम्
महागज इवोद्दामश्चिक्रीड बलवद्बली
विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः
MBh 3.146.55
ततोऽवगाह्य वेगेन तद्वनं बहुपादपम्
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः
MBh 3.146.56
तस्य शङ्खस्य शब्देन भीमसेनरवेण च
बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः
MBh 3.146.57
तं वज्रनिष्पेषसममास्फोटितरवं भृशम्
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः
MBh 3.146.58
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः
MBh 3.146.59
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः
प्राजृम्भत महाकायो हनूमान्नाम वानरः
MBh 3.146.60
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्
आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम्
MBh 3.146.61
तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः
उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः
MBh 3.146.62
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु
MBh 3.146.63
स भीमसेनस्तं श्रुत्वा संप्रहृष्टतनूरुहः
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्
MBh 3.146.64
कदलीवनमध्यस्थमथ पीने शिलातले
स ददर्श महाबाहुर्वानराधिपतिं स्थितम्
MBh 3.146.65
विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम्
विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम्
MBh 3.146.66
बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम्
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्
MBh 3.146.67
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्
MBh 3.146.68
रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम्
वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम्
MBh 3.146.69
वदनाभ्यन्तरगतैः शुक्लभासैरलंकृतम्
केसरोत्करसंमिश्रमशोकानामिवोत्करम्
MBh 3.146.70
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्
दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम्
MBh 3.146.71
निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः
तं वानरवरं वीरमतिकायं महाबलम्
MBh 3.146.72
अथोपसृत्य तरसा भीमो भीमपराक्रमः
सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा
MBh 3.146.73
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः
हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने
अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः
MBh 3.146.74
स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत्
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः
MBh 3.146.75
ननु नाम त्वया कार्या दया भूतेषु जानता
वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः
MBh 3.146.76
मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
MBh 3.146.77
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया
अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान्
MBh 3.146.78
ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि
MBh 3.146.79
अतः परमगम्योऽयं पर्वतः सुदुरारुहः
विना सिद्धगतिं वीर गतिरत्र न विद्यते
MBh 3.146.80
कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो
MBh 3.146.81
इमान्यमृतकल्पानि मूलानि च फलानि च
भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 145
- Next chapter · Vana-Parva (Āraṇyaka) Ch 147 →
Sources and Connected Readings
Continue from these 81 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.146local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷