🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 147

The Book of the Forest · Parva 3 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 3.147.1
वैशंपायन उवाच एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः
MBh 3.147.2
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति
MBh 3.147.3
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः पाण्डवो वायुतनयो भीमसेन इति श्रुतः
MBh 3.147.4
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् हनूमान्वायुतनयो वायुपुत्रमभाषत
MBh 3.147.5
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्
MBh 3.147.6
भीम उवाच वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम्
MBh 3.147.7
हनूमानुवाच नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्
MBh 3.147.8
भीम उवाच निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये
MBh 3.147.9
यद्यागमैर्न विन्देयं तमहं भूतभावनम् क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम्
MBh 3.147.10
हनूमानुवाच क एष हनुमान्नाम सागरो येन लङ्घितः पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते
MBh 3.147.11
भीम उवाच भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः रामायणेऽतिविख्यातः शूरो वानरपुंगवः
MBh 3.147.12
रामपत्नीकृते येन शतयोजनमायतः सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः
MBh 3.147.13
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे
MBh 3.147.14
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम्
MBh 3.147.15
वैशंपायन उवाच विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत्
MBh 3.147.16
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम्
MBh 3.147.17
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना न चाशकच्चालयितुं भीमः पुच्छं महाकपेः
MBh 3.147.18
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः
MBh 3.147.19
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह
MBh 3.147.20
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः
MBh 3.147.21
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम
MBh 3.147.22
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक्
MBh 3.147.23
हनूमानुवाच यत्ते मम परिज्ञाने कौतूहलमरिंदम तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन
MBh 3.147.24
अहं केसरिणः क्षेत्रे वायुना जगदायुषा जातः कमलपत्राक्ष हनूमान्नाम वानरः
MBh 3.147.25
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् सर्ववानरराजानौ सर्ववानरयूथपाः
MBh 3.147.26
उपतस्थुर्महावीर्या मम चामित्रकर्शन सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा
MBh 3.147.27
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्
MBh 3.147.28
अथ दाशरथिर्वीरो रामो नाम महाबलः विष्णुर्मानुषरूपेण चचार वसुधामिमाम्
MBh 3.147.29
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः
MBh 3.147.30
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम्
MBh 3.147.31
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम्
MBh 3.147.32
तेन तस्याभवत्सख्यं राघवस्य महात्मनः स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् स हरीन्प्रेषयामास सीतायाः परिमार्गणे
MBh 3.147.33
ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता
MBh 3.147.34
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः
MBh 3.147.35
दृष्टा सा च मया देवी रावणस्य निवेशने प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै
MBh 3.147.36
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा
MBh 3.147.37
ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत्
MBh 3.147.38
दश वर्षसहस्राणि दश वर्षशतानि च राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः
MBh 3.147.39
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम्
MBh 3.147.40
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत
MBh 3.147.41
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.147local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷