🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 145

The Book of the Forest · Parva 3 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 43 Shlokas

MBh 3.145.1
युधिष्ठिर उवाच धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम्
MBh 3.145.2
तव भीम बलेनाहमतिभीमपराक्रम अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्
MBh 3.145.3
वैशंपायन उवाच भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्
MBh 3.145.4
हैडिम्बेय परिश्रान्ता तव मातापराजिता त्वं च कामगमस्तात बलवान्वह तां खग
MBh 3.145.5
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा गच्छ नीचिकया गत्या यथा चैनां न पीडयेः
MBh 3.145.6
घटोत्कच उवाच धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्
MBh 3.145.7
वैशंपायन उवाच एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे
MBh 3.145.8
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः
MBh 3.145.9
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः
MBh 3.145.10
एवं सुरमणीयानि वनान्युपवनानि च आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति
MBh 3.145.11
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत्
MBh 3.145.12
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् ददृशुर्गिरिपादांश्च नानाधातुसमाचितान्
MBh 3.145.13
विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः
MBh 3.145.14
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान्
MBh 3.145.15
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम्
MBh 3.145.16
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः
MBh 3.145.17
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् स्निग्धामविरलच्छायां श्रिया परमया युताम्
MBh 3.145.18
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम्
MBh 3.145.19
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्
MBh 3.145.20
अदंशमशके देशे बहुमूलफलोदके नीलशाद्वलसंछन्ने देवगन्धर्वसेविते
MBh 3.145.21
सुसमीकृतभूभागे स्वभावविहिते शुभे जातां हिममृदुस्पर्शे देशेऽपहतकण्टके
MBh 3.145.22
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः
MBh 3.145.23
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः
MBh 3.145.24
तमसा रहितं पुण्यमनामृष्टं रवेः करैः क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्
MBh 3.145.25
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः
MBh 3.145.26
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्
MBh 3.145.27
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्
MBh 3.145.28
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्
MBh 3.145.29
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः
MBh 3.145.30
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः
MBh 3.145.31
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः
MBh 3.145.32
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम्
MBh 3.145.33
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि
MBh 3.145.34
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः
MBh 3.145.35
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया
MBh 3.145.36
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः
MBh 3.145.37
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् नरनारायणस्थानं भागीरथ्योपशोभितम्
MBh 3.145.38
मधुस्रवफलां दिव्यां महर्षिगणसेविताम् तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह
MBh 3.145.39
आलोकयन्तो मैनाकं नानाद्विजगणायुतम् हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम्
MBh 3.145.40
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्
MBh 3.145.41
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः
MBh 3.145.42
तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः
MBh 3.145.43
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.145local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷