🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 111
The Book of the Forest · Parva 3 · 22 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 22 Shlokas
MBh 3.111.1
[लॊमष]
सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये
संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत
MBh 3.111.2
नानापुष्पफलैर वृक्षैः कृत्रिमैर उपशॊभितम
नानागुल्मलतॊपैतैः सवादु कामफलप्रदैः
MBh 3.111.3
अतीव रमणीयं तद अतीव च मनॊहरम
चक्रे नाव्याश्रमं रम्यम अद्भुतॊपमदर्शनम
MBh 3.111.4
ततॊ निबध्य तां नावम अदूरे काश्यपाश्रमात
चारयाम आस पुरुषैर विहारं तस्य वै मुनेः
MBh 3.111.5
ततॊ दुहितरं वेश्या समाधायेति कृत्यताम
दृष्ट्वान्तरं काश्यपस्य पराहिणॊद बुद्धिसंमताम
MBh 3.111.6
सा तत्र गत्वा कुशला तपॊनित्यस्य संनिधौ
आश्रमं तं समासाद्य ददर्श तम ऋषेः सुतम
MBh 3.111.7
[वेष्या]
कच चिन मुने कुशलं तापसानां; कच चिच च वॊ मूलफलं परभूतम
कच चिद भवान रमते चाश्रमे ऽसमिंस; तवां वै दरष्टुं सांप्रतम आगतॊ ऽसमि
MBh 3.111.8
कच चित तपॊ वर्धते तापसानां; पिता च ते कच चिद अहीन तेजाः
कच चित तवया परीयते चैव विप्र; कच चित सवाध्यायः करियत ऋश्य शृङ्ग
MBh 3.111.9
[र]
ऋद्धॊ भवाञ जयॊतिर इव परकाशते; मन्ये चाहं तवाम अभिवादनीयम
पाद्यं वै ते संप्रदास्यामि कामाद; यथा धर्मं फलमूलानि चैव
MBh 3.111.10
कौश्यां बृस्याम आस्स्व यथॊपजॊषं; कृष्णाजिनेनावृतायां सुखायाम
कव चाश्रमस तव किंनाम चेदं; वरतं बरह्मंश चरसि हि देव वत तवम
MBh 3.111.11
[वेष्या]
ममाश्रमः काश्यप पुत्र रम्यस; तरियॊजनं शैलम इमं परेण
तत्र सवधर्मॊ ऽनभिवानदं नॊ; न चॊदकं पाद्यम उपस्पृशामः
MBh 3.111.12
[र]
फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य आमलकानि चैव
परूषकाणीङ्गुद धन्वनानि; परियालानां कामकारं कुरुष्व
MBh 3.111.13
[ल]
सा तानि सर्वाणि विसर्जयित्वा; भक्षान महार्हान परददौ ततॊ ऽसमै
तान्य ऋश्य शृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर हि
MBh 3.111.14
ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति
पानानि चाग्र्याणि ततॊ मुमॊद; चिक्रीड चैव परजहास चैव
MBh 3.111.15
सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव
गात्रैश च गात्राणि निषेवमाणा; समाश्लिषच चासकृद ऋश्य शृङ्गम
MBh 3.111.16
सर्जान अशॊकांस तिलकांश च वृक्षान; परपुष्पितान अवनाम्यावभज्य
विलज्जमानेव मदाभिभूता; परलॊभयाम आस सुतं महर्षेः
MBh 3.111.17
अथर्श्य शृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम अस्य
अवेक्षमाणा शनकिर जगाम; कृत्वाग्निहॊत्रस्य तदापदेशम
MBh 3.111.18
तस्यां गतायां मदनेन मत्तॊ; वि चेतनश चाभवद ऋश्य शृङ्गः
ताम एव भावेन गतेन शून्यॊ; विनिःश्वसन्न आर्तरूपॊ बभूव
MBh 3.111.19
ततॊ मुहूर्ताद धरि पिङ्गलाक्षः; परवेष्टितॊ रॊमभिरा नखाग्रात
सवाध्यायवान वृत्तसमाधि युक्तॊ; विभाण्डकः काश्यपः परादुरासीत
MBh 3.111.20
सॊ ऽपश्यद आसीनम उपेत्य पुत्रं; धयायन्तम एकं विपरीतचित्तम
विनिःश्वसन्तं मुहुर ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम उवाच दीनम
MBh 3.111.21
न कल्प्यन्ते समिधः किं नु तात; कच चिद धुतं चाग्निहॊत्रं तवयाद्य
सुनिर्निक्तं सरुक सरुवं हॊमधेनुः; कच चित स वत्सा च कृता तवयाद्य
MBh 3.111.22
न वै यथापूर्वम इवासि पुत्र; चिन्तापरश चासि वि चेतनश च
दीनॊ ऽति मात्रं तवम इहाद्य किं नु; पृच्छामि तवां क इहाद्यागतॊ ऽभूत
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 110
- Next chapter · Vana-Parva (Āraṇyaka) Ch 112 →
🪷 जय व्यास भगवान् 🪷