🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 110

The Book of the Forest · Parva 3 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 3.110.1
लोमश उवाच एषा देवनदी पुण्या कौशिकी भरतर्षभ विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते
MBh 3.110.2
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः
MBh 3.110.3
तपसो यः प्रभावेन वर्षयामास वासवम् अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा
MBh 3.110.4
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः विषये लोमपादस्य यश्चकाराद्भुतं महत्
MBh 3.110.5
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः लोमपादो दुहितरं सावित्रीं सविता यथा
MBh 3.110.6
युधिष्ठिर उवाच ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः विरुद्धे योनिसंसर्गे कथं च तपसा युतः
MBh 3.110.7
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा
MBh 3.110.8
कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता लोभयामास या चेतो मृगभूतस्य तस्य वै
MBh 3.110.9
लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः कथं वै विषये तस्य नावर्षत्पाकशासनः
MBh 3.110.10
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम्
MBh 3.110.11
लोमश उवाच विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः
MBh 3.110.12
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् महाह्रदे महातेजा बालः स्थविरसंमतः
MBh 3.110.13
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः
MBh 3.110.14
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा
MBh 3.110.15
सह तोयेन तृषिता सा गर्भिण्यभवन्नृप अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्
MBh 3.110.16
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत
MBh 3.110.17
तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्
MBh 3.110.18
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप
MBh 3.110.19
एतस्मिन्नेव काले तु सखा दशरथस्य वै लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत्
MBh 3.110.20
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः
MBh 3.110.21
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः
MBh 3.110.22
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः
MBh 3.110.23
कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः
MBh 3.110.24
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर
MBh 3.110.25
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव वानेयमनभिज्ञं च नारीणामार्जवे रतम्
MBh 3.110.26
स चेदवतरेद्राजन्विषयं ते महातपाः सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः
MBh 3.110.27
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः
MBh 3.110.28
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये
MBh 3.110.29
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः
MBh 3.110.30
तत आनाययामास वारमुख्या महीपतिः वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः
MBh 3.110.31
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः लोभयित्वाभिविश्वास्य विषयं मम शोभनाः
MBh 3.110.32
ता राजभयभीताश्च शापभीताश्च योषितः अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः
MBh 3.110.33
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् प्रयतिष्ये महाराज तमानेतुं तपोधनम्
MBh 3.110.34
अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम्
MBh 3.110.35
तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः धनं च प्रददौ भूरि रत्नानि विविधानि च
MBh 3.110.36
ततो रूपेण संपन्ना वयसा च महीपते स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.110local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷