🪷 Mahābhārata · Udyoga-Parva · Chapter 49
The Book of the Effort · Parva 5 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 5.49.1
धृतराष्ट्र उवाच
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत
श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः
MBh 5.49.2
किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः
कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते
MBh 5.49.3
के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्
MBh 5.49.4
संजय उवाच
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च
MBh 5.49.5
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्
MBh 5.49.6
तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम्
MBh 5.49.7
आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम्
पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्
MBh 5.49.8
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः
क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम्
MBh 5.49.9
धृतराष्ट्र उवाच
संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत
धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव
MBh 5.49.10
वैशंपायन उवाच
गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि
निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्निव
तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत्
MBh 5.49.11
तदाचचक्षे पुरुषः सभायां राजसंसदि
संजयोऽयं महाराज मूर्च्छितः पतितो भुवि
वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः
MBh 5.49.12
धृतराष्ट्र उवाच
अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान्
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः
MBh 5.49.13
वैशंपायन उवाच
संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्
धृतराष्ट्रं महाराज सभायां कुरुसंसदि
MBh 5.49.14
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्
मत्स्यराजगृहावासादवरोधेन कर्शितान्
शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत
MBh 5.49.15
यो नैव रोषान्न भयान्न कामान्नार्थकारणात्
न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथंचन
MBh 5.49.16
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.17
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.18
निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात्
य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः
MBh 5.49.19
याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः
MBh 5.49.20
यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत
MBh 5.49.21
कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः
प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्
MBh 5.49.22
यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम्
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.23
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः
अजयद्यः पुरा वीरो युध्यमानं पुरंदरम्
MBh 5.49.24
यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्
तोषयामास युद्धेन देवदेवमुमापतिम्
MBh 5.49.25
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत
MBh 5.49.26
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः
MBh 5.49.27
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत
MBh 5.49.28
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.29
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः
अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च
MBh 5.49.30
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
यवीयसा नृवीरेण माद्रीनन्दिकरेण च
MBh 5.49.31
तपश्चचार या घोरं काशिकन्या पुरा सती
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ
MBh 5.49.32
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्
स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान्
MBh 5.49.33
यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत
MBh 5.49.34
यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत
MBh 5.49.35
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत
MBh 5.49.36
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः
तेन वो वृष्णिवीरेण युयुधानेन संगरः
MBh 5.49.37
य आसीच्छरणं काले पाण्डवानां महात्मनाम्
रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.38
यः स काशिपती राजा वाराणस्यां महारथः
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत
MBh 5.49.39
शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः
आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत
MBh 5.49.40
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे
तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत
MBh 5.49.41
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.42
यः संश्रयः पाण्डवानां देवानामिव वासवः
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत
MBh 5.49.43
तथा चेदिपतेर्भ्राता शरभो भरतर्षभ
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत
MBh 5.49.44
जारासंधिः सहदेवो जयत्सेनश्च तावुभौ
द्रुपदश्च महातेजा बलेन महता वृतः
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः
MBh 5.49.45
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः
शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 48
- Next chapter · Udyoga-Parva Ch 50 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.49local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷