🪷 Mahābhārata · Udyoga-Parva · Chapter 48

The Book of the Effort · Parva 5 · 47 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 5.48local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 47 Shlokas

MBh 5.48.1
[व] समवेतेषु सर्वेषु तेषु राजसु भारत दुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत
MBh 5.48.2
बृहस्पतिश चॊशना च बराह्मणं पर्युपस्थितौ मरुतश च सहेन्द्रेण वसवश च सहाश्विनौ
MBh 5.48.3
आदित्याश चैव साध्याश च ये च सप्तर्षयॊ दिवि विश्वावसुश च गन्धर्वः शुभाश चापरसां गणाः
MBh 5.48.4
नमस्कृत्वॊपजग्मुस ते लॊकवृद्धं पितामहम परिवार्य च विश्वेशं पर्यासत दिवौकसः
MBh 5.48.5
तेषां मनश च तेजश चाप्य आददानौ दिवौकसाम पूर्वदेवौ वयतिक्रान्तौ नरनारायणाव ऋषी
MBh 5.48.6
बृहस्पतिश च पप्रच्छ बराह्मणं काव इमाव इति भवन्तं नॊपतिष्ठेते तौ नः शंस पितामह
MBh 5.48.7
याव एतौ पृथिवीं दयां च भासयन्तौ तपस्विनौ जवलन्तौ रॊचमानौ च वयाप्यातीतौ महाबलौ
MBh 5.48.8
नरनारायणाव एतौ लॊकाल लॊकं समास्थितौ ऊर्जितौ सवेन तपसा महासत्त्वपराक्रमौ
MBh 5.48.9
एतौ हि कर्मणा लॊकान नन्दयाम आसतुर धरुवौ असुराणाम अभावाय देवगन्धर्वपूजितौ
MBh 5.48.10
जगाम शक्रस तच छरुत्वा यत्र तौ तेपतुस तपः सार्धं देवगणैः सर्वैर बृहस्पतिपुरॊगमैः
MBh 5.48.11
तदा देवासुरे घॊरे भये जाते दिवौकसाम अयाचत महात्मानौ नरनारायणौ वरम
MBh 5.48.12
ताव अब्रूतां वृणीष्वेति तदा भरतसत्तम अथैताव अब्रवीच छक्रः साह्यं नः करियताम इति
MBh 5.48.13
ततस तौ शक्रम अब्रूतां करिष्यावॊ यद इच्छसि ताभ्यां स सहितः शक्रॊ विजिग्ये दैत्यदानवान
MBh 5.48.14
नर इन्द्रस्य संग्रामे हत्वा शत्रून परंतपः पौलॊमान कालखञ्जांश च सहस्राणि शतानि च
MBh 5.48.15
एष भरान्ते रथे तिष्ठन भल्लेनापहरच छिरः जम्भस्य गरसमानस्य यज्ञम अर्जुन आहवे
MBh 5.48.16
एष पारे समुद्रस्य हिरण्यपुरम आरुजत हत्वा षष्टिसहस्राणि निवातकवचान रणे
MBh 5.48.17
एष देवान सहेन्द्रेण जित्वा परपुरंजयः अतर्पयन महाबाहुर अर्जुनॊ जातवेदसम नारायणस तथैवात्र भूयसॊ ऽनयाञ जघान ह
MBh 5.48.18
एवम एतौ महावीर्यौ तौ पश्यत समागतौ वासुदेवार्जुनौ वीरौ समवेतौ महारथौ
MBh 5.48.19
नरनारायणौ देवौ पूर्वदेवाव इति शरुतिः अजेयौ मानुषे लॊके सेन्द्रैर अपि सुरासुरैः
MBh 5.48.20
एष नारायणः कृष्णः फल्गुनस तु नरः समृतः नारायणॊ नरश चैव सत्त्वम एकं दविधाकृतम
MBh 5.48.21
एतौ हि कर्मणा लॊकान अश्नुवाते ऽकषयान धरुवान तत्र तत्रैव जायेते युद्धकाले पुनः पुनः
MBh 5.48.22
तस्मात कर्मैव कर्तव्यम इति हॊवाच नारदः एतद धि सर्वम आचष्ट वृष्णिचक्रस्य वेदवित
MBh 5.48.23
शङ्खचक्रगदाहस्तं यदा दरक्ष्यसि केशवम पर्याददानं चास्त्राणि भीमधन्वानम अर्जुनम
MBh 5.48.24
सनातनौ महात्मानौ कृष्णाव एकरथे सथितौ दुर्यॊधन तदा तात समर्तासि वचनं मम
MBh 5.48.25
नॊ चेद अयम अभावः सयात कुरूणां परत्युपस्थितः अर्थाच च तात धर्माच च तव बुद्धिर उपप्लुता
MBh 5.48.26
न चेद गरहीष्यसे वाक्यं शरॊतासि सुबहून हतान तवैव हि मतं सर्वे कुरवः पर्युपासते
MBh 5.48.27
तरयाणाम एव च मतं तत्त्वम एकॊ ऽनुमन्यसे रामेण चैव शप्तस्य कर्णस्य भरतर्षभ
MBh 5.48.28
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च तथा कषुद्रस्य पापस्य भरातुर दुःशासनस्य च
MBh 5.48.29
[कर्ण] नैवम आयुष्मता वाच्यं यन माम आत्थ पितामह कषत्रधर्मे सथितॊ हय अस्मि सवधर्माद अनपेयिवान
MBh 5.48.30
किं चान्यन मयि दुर्वृत्तं येन मां परिगर्हसे न हि मे वृजिनं किं चिद धार्तराष्ट्रा विदुः कव चित
MBh 5.48.31
राज्ञॊ हि धृतराष्ट्रस्य सर्वं कार्यं परियं मया तथा दुर्यॊधनस्यापि स हि राज्ये समाहितः
MBh 5.48.32
कर्णस्य तु वचः शरुत्वा भीष्मः शांतनवः पुनः धृतराष्ट्रं महाराजम आभाष्येदं वचॊ ऽबरवीत
MBh 5.48.33
यद अयं कत्थते नित्यं हन्ताहं पाण्डवान इति नायं कलापि संपूर्णा पाण्डवानां महात्मनाम
MBh 5.48.34
अनयॊ यॊ ऽयम आगन्ता पुत्राणां ते दुरात्मनाम तद अस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः
MBh 5.48.35
एनम आश्रित्य पुत्रस ते मन्दबुद्धिः सुयॊधनः अवमन्यत तान वीरान देवपुत्रान अरिंदमान
MBh 5.48.36
किं चाप्य अनेन तत कर्मकृतं पूर्वं सुदुष्करम तैर यथा पाण्डवैः सर्वैर एकैकेन कृतं पुरा
MBh 5.48.37
दृष्ट्वा विराटनगरे भरातरं निहतं परियम धनंजयेन विक्रम्य किम अनेन तदा कृतम
MBh 5.48.38
सहितान हि कुरून सर्वान अभियातॊ धनंजयः परमथ्य चाच्छिनद गावः किम अयं परॊषितस तदा
MBh 5.48.39
गन्धर्वैर घॊषयात्रायां हरियते यत सुतस तव कव तदा सूतपुत्रॊ ऽभूद य इदानीं वृषायते
MBh 5.48.40
ननु तत्रापि पार्थेन भीमेन च महात्मना यमाभ्याम एव चागम्य गन्धर्वास ते पराजिताः
MBh 5.48.41
एतान्य अस्य मृषॊक्तानि बहूनि भरतर्षभ विकत्थनस्य भद्रं ते सदा धर्मार्थलॊपिनः
MBh 5.48.42
भीष्मस्य तु वचः शरुत्वा भारद्वाजॊ महामनाः धृतराष्ट्रम उवाचेदं राजमध्ये ऽभिपूजयन
MBh 5.48.43
यद आह भरतश्रेष्ठॊ भीष्मस तत करियतां नृप न कामम अर्थलिप्सूनां वचनं कर्तुम अर्हसि
MBh 5.48.44
पुरा युद्धात साधु मन्ये पाण्डवैः सह संगम यद वाक्यम अर्जुनेनॊक्तं संजयेन निवेदितम
MBh 5.48.45
सर्वं तद अभिजानामि करिष्यति च पाण्डवः न हय अस्य तरिषु लॊकेषु सदृशॊ ऽसति धनुर्धरः
MBh 5.48.46
अनादृत्य तु तद वाक्यम अर्थवद दरॊण भीष्मयॊः ततः स संजयं राजा पर्यपृच्छत पाण्डवम
MBh 5.48.47
तदैव कुरवः सर्वे निराशा जीविते ऽभवन भीष्मद्रॊणौ यदा राजा न सम्यग अनुभाषते

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷