🪷 Mahābhārata · Udyoga-Parva · Chapter 47

The Book of the Effort · Parva 5 · 103 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 103 Shlokas

MBh 5.47.1
धृतराष्ट्र उवाच पृच्छामि त्वां संजय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः धनंजयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा
MBh 5.47.2
संजय उवाच दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य
MBh 5.47.3
अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्
MBh 5.47.4
ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम् यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम्
MBh 5.47.5
यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम्
MBh 5.47.6
इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः अस्ति नूनं कर्म कृतं पुरस्ता;दनिर्विष्टं पापकं धार्तराष्ट्रैः
MBh 5.47.7
येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च
MBh 5.47.8
तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम् मा तत्कार्षीः पाण्डवार्थाय हेतो;रुपैहि युद्धं यदि मन्यसे त्वम्
MBh 5.47.9
यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी आशिष्यते दुःखतरामनर्था;मन्त्यां शय्यां धार्तराष्ट्रः परासुः
MBh 5.47.10
ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन अन्यायवृत्तः कुरुपाण्डवेया;नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा
MBh 5.47.11
मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम्
MBh 5.47.12
यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम् अवस्रष्टा कुरुषूद्वृत्तचेता;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.13
कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य
MBh 5.47.14
यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम् दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.15
महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.16
महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी सकृद्रथेन प्रतियाद्रथौघा;न्पदातिसंघान्गदयाभिनिघ्नन्
MBh 5.47.17
सैन्याननेकांस्तरसा विमृद्न;न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् छिन्दन्वनं परशुनेव शूर;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.18
तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम्
MBh 5.47.19
हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम् शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.20
उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.21
सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.22
त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः
MBh 5.47.23
शिशून्कृतास्त्रानशिशुप्रकाशा;न्यदा द्रष्टा कौरवः पञ्च शूरान् त्यक्त्वा प्राणान्केकयानाद्रवन्त;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.24
यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः
MBh 5.47.25
महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम् सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.26
ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी
MBh 5.47.27
यदा द्रष्टा द्रौपदेयान्महेषू;ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् आशीविषान्घोरविषानिवायत;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.28
यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन् विगाहिता कृष्णसमः कृतास्त्र;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.29
यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम् सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.30
प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.31
वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.32
यदा कृतास्त्रो द्रुपदः प्रचिन्व;ञ्शिरांसि यूनां समरे रथस्थः क्रुद्धः शरैश्छेत्स्यति चापमुक्तै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.33
यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा मत्स्यैः सार्धमनृशंसरूपै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.34
ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात् यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.35
रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शंतनूजे न जातु नः शत्रवो धारयेयु;रसंशयं सत्यमेतद्ब्रवीमि
MBh 5.47.36
यदा शिखण्डी रथिनः प्रचिन्व;न्भीष्मं रथेनाभियाता वरूथी दिव्यैर्हयैरवमृद्नन्रथौघां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.37
यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम् अस्त्रं यस्मै गुह्यमुवाच धीमा;न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः
MBh 5.47.38
यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान् द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.39
ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः न जातु तं शत्रवोऽन्ये सहेर;न्येषां स स्यादग्रणीर्वृष्णिसिंहः
MBh 5.47.40
ब्रूयाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सचिवं रथस्थम् शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम्
MBh 5.47.41
यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन् प्रच्छादयिष्यञ्शरजालेन योधां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.42
यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः
MBh 5.47.43
स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति
MBh 5.47.44
चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान् यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः
MBh 5.47.45
हिरण्मयं श्वेतहयैश्चतुर्भि;र्यदा युक्तं स्यन्दनं माधवस्य द्रष्टा युद्धे सात्यकेर्वै सुयोधन;स्तदा तप्स्यत्यकृतात्मा स मन्दः
MBh 5.47.46
यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम् द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः
MBh 5.47.47
यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम् विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः
MBh 5.47.48
तदा मूढो धृतराष्ट्रस्य पुत्र;स्तप्ता युद्धे दुर्मतिर्दुःसहायः दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे
MBh 5.47.49
बलाहकादुच्चरन्तीव विद्यु;त्सहस्रघ्नी द्विषतां संगमेषु अस्थिच्छिदो मर्मभिदो वमेच्छरां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.50
यदा द्रष्टा ज्यामुखाद्बाणसंघा;न्गाण्डीवमुक्तान्पततः शिताग्रान् नागान्हयान्वर्मिणश्चाददानां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.51
यदा मन्दः परबाणान्विमुक्ता;न्ममेषुभिर्ह्रियमाणान्प्रतीपम् तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.52
यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात् प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.53
यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान् शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
MBh 5.47.54
पदातिसंघान्रथसंघान्समन्ता;द्व्यात्ताननः काल इवाततेषुः प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः; शत्रूंस्तदा तप्स्यति मन्दबुद्धिः
MBh 5.47.55
सर्वा दिशः संपतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम् यदा द्रष्टा स्वबलं संप्रमूढं; तदा पश्चात्तप्स्यति मन्दबुद्धिः
MBh 5.47.56
कांदिग्भूतं छिन्नगात्रं विसंज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम् हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम्
MBh 5.47.57
आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसंघम् प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः
MBh 5.47.58
यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश्च तूणावक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान्
MBh 5.47.59
उद्वर्तयन्दस्युसंघान्समेता;न्प्रवर्तयन्युगमन्यद्युगान्ते यदा धक्ष्याम्यग्निवत्कौरवेयां;स्तदा तप्ता धृतराष्ट्रः सपुत्रः
MBh 5.47.60
सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः
MBh 5.47.61
पूर्वाह्णे मां कृतजप्यं कदाचि;द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन्
MBh 5.47.62
इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् सुग्रीवयुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः
MBh 5.47.63
वव्रे चाहं वज्रहस्तान्महेन्द्रा;दस्मिन्युद्धे वासुदेवं सहायम् स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे
MBh 5.47.64
अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत् ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा;न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता
MBh 5.47.65
स बाहुभ्यां सागरमुत्तितीर्षे;न्महोदधिं सलिलस्याप्रमेयम् तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत्
MBh 5.47.66
गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतमतिप्रमाणम् तस्यैव पाणिः सनखो विशीर्ये;न्न चापि किंचित्स गिरेस्तु कुर्यात्
MBh 5.47.67
अग्निं समिद्धं शमयेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत्
MBh 5.47.68
यो रुक्मिणीमेकरथेन भोज्या;मुत्साद्य राज्ञां विषयं प्रसह्य उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा
MBh 5.47.69
अयं गान्धारांस्तरसा संप्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान् बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम्
MBh 5.47.70
अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी संबभूव
MBh 5.47.71
यं स्म युद्धे मन्यतेऽन्यैरजेय;मेकलव्यं नाम निषादराजम् वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः
MBh 5.47.72
तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम् अपातयद्बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम्
MBh 5.47.73
अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम् सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः
MBh 5.47.74
प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम् महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे
MBh 5.47.75
न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम्
MBh 5.47.76
जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम् स तत्कर्म प्रतिशुश्राव दुष्कर;मैश्वर्यवान्सिद्धिषु वासुदेवः
MBh 5.47.77
निर्मोचने षट्सहस्राणि हत्वा; संछिद्य पाशान्सहसा क्षुरान्तान् मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः
MBh 5.47.78
तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः शेते स कृष्णेन हतः परासु;र्वातेनेव मथितः कर्णिकारः
MBh 5.47.79
आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च श्रिया वृतो यशसा चैव धीमा;न्प्रत्याजगामाप्रतिमप्रभावः
MBh 5.47.80
तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत् श्रमश्च ते युध्यमानस्य न स्या;दाकाशे वा अप्सु चैव क्रमः स्यात्
MBh 5.47.81
शस्त्राणि गात्रे च न ते क्रमेर;न्नित्येव कृष्णश्च ततः कृतार्थः एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसंपत्सदैव
MBh 5.47.82
तमसह्यं विष्णुमनन्तवीर्य;माशंसते धार्तराष्ट्रो बलेन यदा ह्येनं तर्कयते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य
MBh 5.47.83
पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं संप्रयुज्य शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा
MBh 5.47.84
नमस्कृत्वा शांतनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः
MBh 5.47.85
धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः
MBh 5.47.86
अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम् ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः
MBh 5.47.87
ते चेदस्मान्युध्यमानाञ्जयेयु;र्देवैरपीन्द्रप्रमुखैः सहायैः धर्मादधर्मश्चरितो गरीया;निति ध्रुवं नास्ति कृतं न साधु
MBh 5.47.88
न चेदिमं पुरुषं कर्मबद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान् आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम्
MBh 5.47.89
न चेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म इदं च तच्चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः
MBh 5.47.90
प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति अन्यत्र युद्धात्कुरवः परीप्स;न्न युध्यतां शेष इहास्ति कश्चित्
MBh 5.47.91
हत्वा त्वहं धार्तराष्ट्रान्सकर्णा;न्राज्यं कुरूणामवजेता समग्रम् यद्वः कार्यं तत्कुरुध्वं यथास्व;मिष्टान्दारानात्मजांश्चोपभुङ्क्त
MBh 5.47.92
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः
MBh 5.47.93
उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च
MBh 5.47.94
तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय जनार्दनश्चाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः
MBh 5.47.95
अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति
MBh 5.47.96
अनालब्धं जृम्भति गाण्डिवं धनु;रनालब्धा कम्पति मे धनुर्ज्या बाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव
MBh 5.47.97
सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम् ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन्
MBh 5.47.98
गोमायुसंघाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा बडाश्चैव तरक्षवश्च
MBh 5.47.99
सुपर्णपाताश्च पतन्ति पश्चा;द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् अहं ह्येकः पार्थिवान्सर्वयोधा;ञ्शरान्वर्षन्मृत्युलोकं नयेयम्
MBh 5.47.100
समाददानः पृथगस्त्रमार्गा;न्यथाग्निरिद्धो गहनं निदाघे स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच्च शक्रो विवेद
MBh 5.47.101
वधे धृतो वेगवतः प्रमुञ्च;न्नाहं प्रजाः किंचिदिवावशिष्ये शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान्
MBh 5.47.102
नित्यं पुनः सचिवैर्यैरवोच;द्देवानपीन्द्रप्रमुखान्सहायान् तैर्मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य
MBh 5.47.103
वृद्धो भीष्मः शांतनवः कृपश्च; द्रोणः सपुत्रो विदुरश्च धीमान् एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 103 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.47local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷