🪷 Mahābhārata · Udyoga-Parva · Chapter 50
The Book of the Effort · Parva 5 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 61 Shlokas
MBh 5.50.1
धृतराष्ट्र उवाच
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः
एकतस्त्वेव ते सर्वे समेता भीम एकतः
MBh 5.50.2
भीमसेनाद्धि मे भूयो भयं संजायते महत्
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः
MBh 5.50.3
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्
भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः
MBh 5.50.4
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि
MBh 5.50.5
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः
MBh 5.50.6
महावेगो महोत्साहो महाबाहुर्महाबलः
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
MBh 5.50.7
ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः
MBh 5.50.8
शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम्
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम्
MBh 5.50.9
यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत्
मामकेषु तथा भीमो बलेषु विचरिष्यति
MBh 5.50.10
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा
MBh 5.50.11
उद्वेपते मे हृदयं यदा दुर्योधनादयः
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः
MBh 5.50.12
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः
MBh 5.50.13
ग्रसमानमनीकानि नरवारणवाजिनाम्
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे
MBh 5.50.14
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे
संजयाचक्ष्व मे शूरं भीमसेनममर्षणम्
MBh 5.50.15
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना
तदैव न हताः सर्वे मम पुत्रा मनस्विना
MBh 5.50.16
येन भीमबला यक्षा राक्षसाश्च समाहताः
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति
MBh 5.50.17
न स जातु वशे तस्थौ मम बालोऽपि संजय
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः
MBh 5.50.18
निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत्
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः
MBh 5.50.19
बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात्
MBh 5.50.20
जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान्
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली
MBh 5.50.21
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः
MBh 5.50.22
आयसेन स दण्डेन रथान्नागान्हयान्नरान्
हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः
MBh 5.50.23
अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः
मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः
MBh 5.50.24
निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम्
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः
MBh 5.50.25
अपारमप्लवागाधं समुद्रं शरवेगिनम्
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः
MBh 5.50.26
क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः
विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः
MBh 5.50.27
संयुगं ये करिष्यन्ति नररूपेण वायुना
नियतं चोदिता धात्रा सिंहेनेव महामृगाः
MBh 5.50.28
शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम्
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः
MBh 5.50.29
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः
MBh 5.50.30
उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान्
प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः
MBh 5.50.31
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा
MBh 5.50.32
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम्
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति
MBh 5.50.33
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान्
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः
MBh 5.50.34
कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान्
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा
MBh 5.50.35
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्
प्रवेक्ष्यति महासेनां पुत्राणां मम संजय
MBh 5.50.36
वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः
मम पुत्राश्च भृत्याश्च राजानश्चैव संजय
MBh 5.50.37
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा
वासुदेवसहायेन जरासंधो निपातितः
MBh 5.50.38
कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता
MBh 5.50.39
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः
ते न तस्य वशं जग्मुः केवलं दैवमेव वा
MBh 5.50.40
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना
अनायुधेन वीरेण निहतः किं ततोऽधिकम्
MBh 5.50.41
दीर्घकालेन संसिक्तं विषमाशीविषो यथा
स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय
MBh 5.50.42
महेन्द्र इव वज्रेण दानवान्देवसत्तमः
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्
MBh 5.50.43
अविषह्यमनावार्यं तीव्रवेगपराक्रमम्
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम्
MBh 5.50.44
अगदस्याप्यधनुषो विरथस्य विवर्मणः
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान्
MBh 5.50.45
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः
MBh 5.50.46
आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः
MBh 5.50.47
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान्
MBh 5.50.48
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः
MBh 5.50.49
यथैषां मामकास्तात तथैषां पाण्डवा अपि
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च
MBh 5.50.50
यत्त्वस्मदाश्रयं किंचिद्दत्तमिष्टं च संजय
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः
MBh 5.50.51
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः
निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम्
MBh 5.50.52
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान्
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम्
MBh 5.50.53
न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय
भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम्
MBh 5.50.54
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान्
सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः
MBh 5.50.55
किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु
MBh 5.50.56
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम्
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन्
MBh 5.50.57
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम्
MBh 5.50.58
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्
MBh 5.50.59
किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः
MBh 5.50.60
अवशोऽहं पुरा तात पुत्राणां निहते शते
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्
MBh 5.50.61
यथा निदाघे ज्वलनः समिद्धो; दहेत्कक्षं वायुना चोद्यमानः
गदाहस्तः पाण्डवस्तद्वदेव; हन्ता मदीयान्सहितोऽर्जुनेन
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 49
- Next chapter · Udyoga-Parva Ch 51 →
Sources and Connected Readings
Continue from these 61 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.50local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷