🪷 Mahābhārata · Udyoga-Parva · Chapter 29
The Book of the Effort · Parva 5 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 5.29.1
वासुदेव उवाच
अविनाशं संजय पाण्डवाना;मिच्छाम्यहं भूतिमेषां प्रियं च
तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम्
MBh 5.29.2
कामो हि मे संजय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेति
राज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम्
MBh 5.29.3
सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः संजय पाण्डवेन
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत्
MBh 5.29.4
तत्त्वं धर्मं विचरन्संजयेह; मत्तश्च जानासि युधिष्ठिराच्च
अथो कस्मात्संजय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म
यथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ
MBh 5.29.5
अस्मिन्विधौ वर्तमाने यथाव;दुच्चावचा मतयो ब्राह्मणानाम्
कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेके
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये;द्विद्वानपीह विदितं ब्राह्मणानाम्
MBh 5.29.6
या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम्
तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः
MBh 5.29.7
सोऽयं विधिर्विहितः कर्मणैव; तद्वर्तते संजय तत्र कर्म
तत्र योऽन्यत्कर्मणः साधु मन्ये;न्मोघं तस्य लपितं दुर्बलस्य
MBh 5.29.8
कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा
अहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः
MBh 5.29.9
मासार्धमासानथ नक्षत्रयोगा;नतन्द्रितश्चन्द्रमा अभ्युपैति
अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः
MBh 5.29.10
अतन्द्रिता भारमिमं महान्तं; बिभर्ति देवी पृथिवी बलेन
अतन्द्रिताः शीघ्रमपो वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः
MBh 5.29.11
अतन्द्रितो वर्षति भूरितेजाः; संनादयन्नन्तरिक्षं दिवं च
अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम्
MBh 5.29.12
हित्वा सुखं मनसश्च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप
सत्यं धर्मं पालयन्नप्रमत्तो; दमं तितिक्षां समतां प्रियं च
एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम्
MBh 5.29.13
बृहस्पतिर्ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत्
हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानामगमद्गौरवं सः
MBh 5.29.14
नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वे
यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश्च शुभ्राः
ब्रह्मचर्यं वेदविद्याः क्रियाश्च; निषेवमाणा मुनयोऽमुत्र भान्ति
MBh 5.29.15
जानन्निमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च
स कस्मात्त्वं जानतां ज्ञानवान्स;न्व्यायच्छसे संजय कौरवार्थे
MBh 5.29.16
आम्नायेषु नित्यसंयोगमस्य; तथाश्वमेधे राजसूये च विद्धि
संयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूयः
MBh 5.29.17
ते चेदिमे कौरवाणामुपाय;मधिगच्छेयुरवधेनैव पार्थाः
धर्मत्राणं पुण्यमेषां कृतं स्या;दार्ये वृत्ते भीमसेनं निगृह्य
MBh 5.29.18
ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम्
यथाशक्त्या पूरयन्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम्
MBh 5.29.19
उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम्
अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि
MBh 5.29.20
चातुर्वर्ण्यस्य प्रथमं विभाग;मवेक्ष्य त्वं संजय स्वं च कर्म
निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते
MBh 5.29.21
अधीयीत ब्राह्मणोऽथो यजेत; दद्यादियात्तीर्थमुख्यानि चैव
अध्यापयेद्याजयेच्चापि याज्या;न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत्
MBh 5.29.22
तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा
यज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान्
MBh 5.29.23
वैश्योऽधीत्य कृषिगोरक्षपण्यै;र्वित्तं चिन्वन्पालयन्नप्रमत्तः
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृदावसेद्गृहान्
MBh 5.29.24
परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धोऽस्य यज्ञः
नित्योत्थितो भूतयेऽतन्द्रितः स्या;देष स्मृतः शूद्रधर्मः पुराणः
MBh 5.29.25
एतान्राजा पालयन्नप्रमत्तो; नियोजयन्सर्ववर्णान्स्वधर्मे
अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान्
MBh 5.29.26
श्रेयांस्तस्माद्यदि विद्येत कश्चि;दभिज्ञातः सर्वधर्मोपपन्नः
स तं दुष्टमनुशिष्यात्प्रजान;न्न चेद्गृध्येदिति तस्मिन्न साधु
MBh 5.29.27
यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्बलमाददानः
ततो राज्ञां भविता युद्धमेत;त्तत्र जातं वर्म शस्त्रं धनुश्च
इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश्च
MBh 5.29.28
स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः
उभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे
योऽयं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी
MBh 5.29.29
भागः पुनः पाण्डवानां निविष्ट;स्तं नोऽकस्मादाददीरन्परे वै
अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः
एतान्धर्मान्कौरवाणां पुराणा;नाचक्षीथाः संजय राज्यमध्ये
MBh 5.29.30
ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः
इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम्
MBh 5.29.31
प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम्
यदुपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम्
MBh 5.29.32
तं चेत्तदा ते सकुमारवृद्धा; अवारयिष्यन्कुरवः समेताः
मम प्रियं धृतराष्ट्रोऽकरिष्य;त्पुत्राणां च कृतमस्याभविष्यत्
MBh 5.29.33
दुःशासनः प्रातिलोम्यान्निनाय; सभामध्ये श्वशुराणां च कृष्णाम्
सा तत्र नीता करुणान्यवोच;न्नान्यं क्षत्तुर्नाथमदृष्ट कंचित्
MBh 5.29.34
कार्पण्यादेव सहितास्तत्र राज्ञो; नाशक्नुवन्प्रतिवक्तुं सभायाम्
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम्
MBh 5.29.35
अनुक्त्वा त्वं धर्ममेवं सभाया;मथेच्छसे पाण्डवस्योपदेष्टुम्
कृष्णा त्वेतत्कर्म चकार शुद्धं; सुदुष्करं तद्धि सभां समेत्य
येन कृच्छ्रात्पाण्डवानुज्जहार; तथात्मानं नौरिव सागरौघात्
MBh 5.29.36
यत्राब्रवीत्सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपे
न ते गतिर्विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म
पराजितास्ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व
MBh 5.29.37
यो बीभत्सोर्हृदये प्रौढ आसी;दस्थिप्रच्छिन्मर्मघाती सुघोरः
कर्णाच्छरो वाङ्मयस्तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य
MBh 5.29.38
कृष्णाजिनानि परिधित्समाना;न्दुःशासनः कटुकान्यभ्यभाषत्
एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम्
MBh 5.29.39
गान्धारराजः शकुनिर्निकृत्या; यदब्रवीद्द्यूतकाले स पार्थान्
पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या
MBh 5.29.40
जानासि त्वं संजय सर्वमेत;द्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम्
स्वयं त्वहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यमेतद्विपन्नम्
MBh 5.29.41
अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणामथ चेच्चरेयम्
पुण्यं च मे स्याच्चरितं महोदयं; मुच्येरंश्च कुरवो मृत्युपाशात्
MBh 5.29.42
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम्
अवेक्षेरन्धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजयेयुः
MBh 5.29.43
अतोऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन
परासिक्तान्धार्तराष्ट्रांस्तु विद्धि; प्रदह्यमानान्कर्मणा स्वेन मन्दान्
MBh 5.29.44
पराजितान्पाण्डवेयांस्तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रः
गदाहस्तो भीमसेनोऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले
MBh 5.29.45
सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः
दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी
MBh 5.29.46
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः
माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्वहं ब्रह्म च ब्राह्मणाश्च
MBh 5.29.47
वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने संजय पाण्डवेयाः
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात्
MBh 5.29.48
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत्
MBh 5.29.49
लताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः
न लता वर्धते जातु अनाश्रित्य महाद्रुमम्
MBh 5.29.50
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः
MBh 5.29.51
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः
योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 28
- Next chapter · Udyoga-Parva Ch 30 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.29local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷