🪷 Mahābhārata · Udyoga-Parva · Chapter 30

The Book of the Effort · Parva 5 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 47 Shlokas

MBh 5.30.1
संजय उवाच आमन्त्रये त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु कच्चिन्न वाचा वृजिनं हि किंचि;दुच्चारितं मे मनसोऽभिषङ्गात्
MBh 5.30.2
जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम् आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः
MBh 5.30.3
युधिष्ठिर उवाच अनुज्ञातः संजय स्वस्ति गच्छ; न नोऽकार्षीरप्रियं जातु किंचित् विद्मश्च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम्
MBh 5.30.4
आप्तो दूतः संजय सुप्रियोऽसि; कल्याणवाक्शीलवान्दृष्टिमांश्च न मुह्येस्त्वं संजय जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम्
MBh 5.30.5
न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम् धर्मारामामर्थवतीमहिंस्रा;मेतां वाचं तव जानामि सूत
MBh 5.30.6
त्वमेव नः प्रियतमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीयः अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनंजयस्यात्मसमः सखासि
MBh 5.30.7
इतो गत्वा संजय क्षिप्रमेव; उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः विशुद्धवीर्यांश्चरणोपपन्ना;न्कुले जातान्सर्वधर्मोपपन्नान्
MBh 5.30.8
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु अभिवाद्या वै मद्वचनेन वृद्धा;स्तथेतरेषां कुशलं वदेथाः
MBh 5.30.9
पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य तैश्च त्वं तात सहितैर्यथार्हं; संगच्छेथाः कुशलेनैव सूत
MBh 5.30.10
आचार्य इष्टोऽनपगो विधेयो; वेदानीप्सन्ब्रह्मचर्यं चचार योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम्
MBh 5.30.11
अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः
MBh 5.30.12
शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य त्वं मामभीक्ष्णं परिकीर्तयन्वै; कृपस्य पादौ संजय पाणिना स्पृशेः
MBh 5.30.13
यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः
MBh 5.30.14
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः संजय मामरोगम्
MBh 5.30.15
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः संजय पापशीलः प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः
MBh 5.30.16
भ्राता कनीयानपि तस्य मन्द;स्तथाशीलः संजय सोऽपि शश्वत् महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः
MBh 5.30.17
वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम् न तस्य युद्धं रोचते वै कदाचि;द्वैश्यापुत्रं कुशलं तात पृच्छेः
MBh 5.30.18
निकर्तने देवने योऽद्वितीय;श्छन्नोपधः साधुदेवी मताक्षः यो दुर्जयो देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः
MBh 5.30.19
यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म स बाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः
MBh 5.30.20
गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे
MBh 5.30.21
अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता संजय मत्सखा च महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः
MBh 5.30.22
ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः यं यमेषां येन येनाभिगच्छे;रनामयं मद्वचनेन वाच्यः
MBh 5.30.23
ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण केचित् वसातयः शाल्वकाः केकयाश्च; तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः
MBh 5.30.24
प्राच्योदीच्या दाक्षिणात्याश्च शूरा;स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे अनृशंसाः शीलवृत्तोपपन्ना;स्तेषां सर्वेषां कुशलं तात पृच्छेः
MBh 5.30.25
हस्त्यारोहा रथिनः सादिनश्च; पदातयश्चार्यसंघा महान्तः आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेः समग्रान्
MBh 5.30.26
तथा राज्ञो ह्यर्थयुक्तानमात्या;न्दौवारिकान्ये च सेनां नयन्ति आयव्ययं ये गणयन्ति युक्ता; अर्थांश्च ये महतश्चिन्तयन्ति
MBh 5.30.27
गान्धारराजः शकुनिः पार्वतीयो; निकर्तने योऽद्वितीयोऽक्षदेवी मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः
MBh 5.30.28
यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम् यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः
MBh 5.30.29
स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च अगाधबुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः
MBh 5.30.30
वृद्धाः स्त्रियो याश्च गुणोपपन्ना; या ज्ञायन्ते संजय मातरस्ताः ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः
MBh 5.30.31
कच्चित्पुत्रा जीवपुत्राः सुसम्य;ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् इति स्मोक्त्वा संजय ब्रूहि पश्चा;दजातशत्रुः कुशली सपुत्रः
MBh 5.30.32
या नो भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः सुसंगुप्ताः सुरभयोऽनवद्याः; कच्चिद्गृहानावसथाप्रमत्ताः
MBh 5.30.33
कच्चिद्वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वमनृशंसरूपाम् यथा च वः स्युः पतयोऽनुकूला;स्तथा वृत्तिमात्मनः स्थापयध्वम्
MBh 5.30.34
या नः स्नुषाः संजय वेत्थ तत्र; प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः प्रजावत्यो ब्रूहि समेत्य ताश्च; युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः
MBh 5.30.35
कन्याः स्वजेथाः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा कल्याणा वः सन्तु पतयोऽनुकूला; यूयं पतीनां भवतानुकूलाः
MBh 5.30.36
अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः लघु यासां दर्शनं वाक्च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः
MBh 5.30.37
दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर्जघन्यम्
MBh 5.30.38
कच्चिद्वृत्तिर्वर्तते वै पुराणी; कच्चिद्भोगान्धार्तराष्ट्रो ददाति अङ्गहीनान्कृपणान्वामनांश्च; आनृशंस्याद्धृतराष्ट्रो बिभर्ति
MBh 5.30.39
अन्धाश्च सर्वे स्थविरास्तथैव; हस्ताजीवा बहवो येऽत्र सन्ति आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेर्जघन्यम्
MBh 5.30.40
मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम् निगृह्य शत्रून्सुहृदोऽनुगृह्य; वासोभिरन्नेन च वो भरिष्ये
MBh 5.30.41
सन्त्येव मे ब्राह्मणेभ्यः कृतानि; भावीन्यथो नो बत वर्तयन्ति पश्याम्यहं युक्तरूपांस्तथैव; तामेव सिद्धिं श्रावयेथा नृपं तम्
MBh 5.30.42
ये चानाथा दुर्बलाः सर्वकाल;मात्मन्येव प्रयतन्तेऽथ मूढाः तांश्चापि त्वं कृपणान्सर्वथैव; अस्मद्वाक्यात्कुशलं तात पृच्छेः
MBh 5.30.43
ये चाप्यन्ये संश्रिता धार्तराष्ट्रा;न्नानादिग्भ्योऽभ्यागताः सूतपुत्र दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा;न्संपृच्छेथाः कुशलं चाव्ययं च
MBh 5.30.44
एवं सर्वानागताभ्यागतांश्च; राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् पृष्ट्वा सर्वान्कुशलं तांश्च सूत; पश्चादहं कुशली तेषु वाच्यः
MBh 5.30.45
न हीदृशाः सन्त्यपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लब्धाः धर्मस्तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय
MBh 5.30.46
इदं पुनर्वचनं धार्तराष्ट्रं; सुयोधनं संजय श्रावयेथाः यस्ते शरीरे हृदयं दुनोति; कामः कुरूनसपत्नोऽनुशिष्याम्
MBh 5.30.47
न विद्यते युक्तिरेतस्य काचि;न्नैवंविधाः स्याम यथा प्रियं ते ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 47 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.30local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷