🪷 Mahābhārata · Udyoga-Parva · Chapter 28

The Book of the Effort · Parva 5 · 14 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 14 Shlokas

MBh 5.28.1
युधिष्ठिर उवाच असंशयं संजय सत्यमेत;द्धर्मो वरः कर्मणां यत्त्वमात्थ ज्ञात्वा तु मां संजय गर्हयेस्त्वं; यदि धर्मं यद्यधर्मं चरामि
MBh 5.28.2
यत्राधर्मो धर्मरूपाणि बिभ्र;द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः तथा धर्मो धारयन्धर्मरूपं; विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या
MBh 5.28.3
एवमेतावापदि लिङ्गमेत;द्धर्माधर्मौ वृत्तिनित्यौ भजेताम् आद्यं लिङ्गं यस्य तस्य प्रमाण;मापद्धर्मं संजय तं निबोध
MBh 5.28.4
लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत्तत्परीप्सेद्विहीनः प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ
MBh 5.28.5
अविलोपमिच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद्विधात्रा आपद्यथाकर्मसु वर्तमाना;न्विकर्मस्थान्संजय गर्हयेत
MBh 5.28.6
मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः
MBh 5.28.7
तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये प्रज्ञैषिणो ये च हि कर्म चक्रु;र्नास्त्यन्ततो नास्ति नास्तीति मन्ये
MBh 5.28.8
यत्किंचिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः संजय कामये तत्
MBh 5.28.9
धर्मेश्वरः कुशलो नीतिमांश्चा;प्युपासिता ब्राह्मणानां मनीषी नानाविधांश्चैव महाबलांश्च; राजन्यभोजाननुशास्ति कृष्णः
MBh 5.28.10
यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम् महायशाः केशवस्तद्ब्रवीतु; वासुदेवस्तूभयोरर्थकामः
MBh 5.28.11
शैनेया हि चैत्रकाश्चान्धकाश्च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून्सुहृदो नन्दयन्ति
MBh 5.28.12
वृष्ण्यन्धका ह्युग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः मनस्विनः सत्यपराक्रमाश्च; महाबला यादवा भोगवन्तः
MBh 5.28.13
काश्यो बभ्रुः श्रियमुत्तमां गतो; लब्ध्वा कृष्णं भ्रातरमीशितारम् यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः
MBh 5.28.14
ईदृशोऽयं केशवस्तात भूयो; विद्मो ह्येनं कर्मणां निश्चयज्ञम् प्रियश्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 14 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.28local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷