🪷 Mahābhārata · Udyoga-Parva · Chapter 2

The Book of the Effort · Parva 5 · 13 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 13 Shlokas

MBh 5.2.1
बलदेव उवाच श्रुतं भवद्भिर्गदपूर्वजस्य; वाक्यं यथा धर्मवदर्थवच्च अजातशत्रोश्च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः
MBh 5.2.2
अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास्तस्य कृते यतन्ते प्रदाय चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिरतीव मोदेत्
MBh 5.2.3
लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक्प्रवृत्तेषु परेषु चैव ध्रुवं प्रशान्ताः सुखमाविशेयु;स्तेषां प्रशान्तिश्च हितं प्रजानाम्
MBh 5.2.4
दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य प्रियं मम स्याद्यदि तत्र कश्चि;द्व्रजेच्छमार्थं कुरुपाण्डवानाम्
MBh 5.2.5
स भीष्ममामन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम् द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम्
MBh 5.2.6
सर्वे च येऽन्ये धृतराष्ट्रपुत्रा; बलप्रधाना निगमप्रधानाः स्थिताश्च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः
MBh 5.2.7
एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात्
MBh 5.2.8
सर्वास्ववस्थासु च ते न कौट्या;द्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम्
MBh 5.2.9
निवार्यमाणश्च कुरुप्रवीरैः; सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः गान्धारराजस्य सुतं मताक्षं; समाह्वयेद्देवितुमाजमीढः
MBh 5.2.10
दुरोदरास्तत्र सहस्रशोऽन्ये; युधिष्ठिरो यान्विषहेत जेतुम् उत्सृज्य तान्सौबलमेव चायं; समाह्वयत्तेन जितोऽक्षवत्याम्
MBh 5.2.11
स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर्न कश्चित्
MBh 5.2.12
तस्मात्प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम् तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे नियोक्तुं पुरुषेण तेन
MBh 5.2.13
वैशंपायन उवाच एवं ब्रुवत्येव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात तच्चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यमिदं समन्युः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 13 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.2local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷