🪷 Mahābhārata · Udyoga-Parva · Chapter 1
The Book of the Effort · Parva 5 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 25 Shlokas
MBh 5.1.1
वैशंपायन उवाच
कृत्वा विवाहं तु कुरुप्रवीरा;स्तदाभिमन्योर्मुदितस्वपक्षाः
विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः
MBh 5.1.2
सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा
न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः
MBh 5.1.3
अथासनान्याविशतां पुरस्ता;दुभौ विराटद्रुपदौ नरेन्द्रौ
वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम्
MBh 5.1.4
पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः
मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च
MBh 5.1.5
सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च
प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः
MBh 5.1.6
सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव
उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु
MBh 5.1.7
तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु
रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता
MBh 5.1.8
ततः कथास्ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः
तस्थुर्मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास्ते समुदीक्षमाणाः
MBh 5.1.9
कथान्तमासाद्य च माधवेन; संघट्टिताः पाण्डवकार्यहेतोः
ते राजसिंहाः सहिता ह्यशृण्व;न्वाक्यं महार्थं च महोदयं च
MBh 5.1.10
कृष्ण उवाच
सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम्
जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च
MBh 5.1.11
शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत्
पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः
MBh 5.1.12
त्रयोदशश्चैव सुदुस्तरोऽय;मज्ञायमानैर्भवतां समीपे
क्लेशानसह्यांश्च तितिक्षमाणै;र्यथोषितं तद्विदितं च सर्वम्
MBh 5.1.13
एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात्
तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च
MBh 5.1.14
अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः
धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत्
MBh 5.1.15
पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः
मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम्
MBh 5.1.16
न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः
तथापि राजा सहितः सुहृद्भि;रभीप्सतेऽनामयमेव तेषाम्
MBh 5.1.17
यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य
तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च
MBh 5.1.18
बालास्त्विमे तैर्विविधैरुपायैः; संप्रार्थिता हन्तुममित्रसाहाः
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत्
MBh 5.1.19
तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य
संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च
MBh 5.1.20
इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत्
अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान्
MBh 5.1.21
तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः
युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः
MBh 5.1.22
तथापि नेमेऽल्पतया समर्था;स्तेषां जयायेति भवेन्मतं वः
समेत्य सर्वे सहिताः सुहृद्भि;स्तेषां विनाशाय यतेयुरेव
MBh 5.1.23
दुर्योधनस्यापि मतं यथाव;न्न ज्ञायते किं नु करिष्यतीति
अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः
MBh 5.1.24
तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः
दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य
MBh 5.1.25
निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च
समाददे वाक्यमथाग्रजोऽस्य; संपूज्य वाक्यं तदतीव राजन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Virāṭa-Parva Ch 67
- Next chapter · Udyoga-Parva Ch 2 →
Sources and Connected Readings
Continue from these 25 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.1local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷