🪷 Mahābhārata · Udyoga-Parva · Chapter 128

The Book of the Effort · Parva 5 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 5.128.1
वैशंपायन उवाच तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम्
MBh 5.128.2
ततः सभाया निर्गम्य मन्त्रयामास कौरवः सौबलेन मताक्षेण राज्ञा शकुनिना सह
MBh 5.128.3
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च दुःशासनचतुर्थानामिदमासीद्विचेष्टितम्
MBh 5.128.4
पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च
MBh 5.128.5
वयमेव हृषीकेशं निगृह्णीम बलादिव प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा
MBh 5.128.6
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः
MBh 5.128.7
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह
MBh 5.128.8
तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्
MBh 5.128.9
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः
MBh 5.128.10
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम्
MBh 5.128.11
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे
MBh 5.128.12
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव आचष्ट तमभिप्रायं केशवाय महात्मने
MBh 5.128.13
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत तेषामेतमभिप्रायमाचचक्षे स्मयन्निव
MBh 5.128.14
धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन
MBh 5.128.15
पुरा विकुर्वते मूढाः पापात्मानः समागताः धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः
MBh 5.128.16
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः
MBh 5.128.17
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि
MBh 5.128.18
राजन्परीतकालास्ते पुत्राः सर्वे परंतप अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः
MBh 5.128.19
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्
MBh 5.128.20
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् आसाद्य न भविष्यन्ति पतंगा इव पावकम्
MBh 5.128.21
अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम्
MBh 5.128.22
न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः
MBh 5.128.23
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः
MBh 5.128.24
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा एते वा मामहं वैनाननुजानीहि पार्थिव
MBh 5.128.25
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन
MBh 5.128.26
पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः
MBh 5.128.27
अद्यैव ह्यहमेतांश्च ये चैताननु भारत निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्
MBh 5.128.28
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत संनिधौ ते महाराज क्रोधजं पापबुद्धिजम्
MBh 5.128.29
एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् अहं तु सर्वान्समयाननुजानामि भारत
MBh 5.128.30
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम्
MBh 5.128.31
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् शक्नुयां यदि पन्थानमवतारयितुं पुनः
MBh 5.128.32
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्
MBh 5.128.33
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम्
MBh 5.128.34
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि
MBh 5.128.35
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः
MBh 5.128.36
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि
MBh 5.128.37
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा
MBh 5.128.38
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः न सोढुं समरे शक्यस्तं न बुध्यसि केशवम्
MBh 5.128.39
दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात्
MBh 5.128.40
इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्
MBh 5.128.41
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः शिलावर्षेण महता छादयामास केशवम्
MBh 5.128.42
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात्
MBh 5.128.43
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्
MBh 5.128.44
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात्
MBh 5.128.45
अनेन हि हता बाल्ये पूतना शिशुना तथा गोवर्धनो धारितश्च गवार्थे भरतर्षभ
MBh 5.128.46
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः अश्वराजश्च निहतः कंसश्चारिष्टमाचरन्
MBh 5.128.47
जरासंधश्च वक्रश्च शिशुपालश्च वीर्यवान् बाणश्च निहतः संख्ये राजानश्च निषूदिताः
MBh 5.128.48
वरुणो निर्जितो राजा पावकश्चामितौजसा पारिजातं च हरता जितः साक्षाच्छचीपतिः
MBh 5.128.49
एकार्णवे शयानेन हतौ तौ मधुकैटभौ जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः
MBh 5.128.50
अयं कर्ता न क्रियते कारणं चापि पौरुषे यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः
MBh 5.128.51
तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम्
MBh 5.128.52
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् पतंगोऽग्निमिवासाद्य सामात्यो न भविष्यसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.128local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷