🪷 Mahābhārata · Udyoga-Parva · Chapter 127

The Book of the Effort · Parva 5 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 53 Shlokas

MBh 5.127.1
वैशंपायन उवाच कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत
MBh 5.127.2
गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् आनयेह तया सार्धमनुनेष्यामि दुर्मतिम्
MBh 5.127.3
यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम्
MBh 5.127.4
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः
MBh 5.127.5
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् शमयेच्चिररात्राय योगक्षेमवदव्ययम्
MBh 5.127.6
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् आनयामास गान्धारीं धृतराष्ट्रस्य शासनात्
MBh 5.127.7
धृतराष्ट्र उवाच एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति
MBh 5.127.8
अशिष्टवदमर्यादः पापैः सह दुरात्मभिः सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः
MBh 5.127.9
वैशंपायन उवाच सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत्
MBh 5.127.10
आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना
MBh 5.127.11
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे
MBh 5.127.12
स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात्
MBh 5.127.13
राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम्
MBh 5.127.14
कथं हि स्वजने भेदमुपेक्षेत महामतिः भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः
MBh 5.127.15
या हि शक्या महाराज साम्ना दानेन वा पुनः निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत्
MBh 5.127.16
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः
MBh 5.127.17
स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः
MBh 5.127.18
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत्
MBh 5.127.19
दुर्योधन निबोधेदं वचनं मम पुत्रक हितं ते सानुबन्धस्य तथायत्यां सुखोदयम्
MBh 5.127.20
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया
MBh 5.127.21
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ
MBh 5.127.22
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् विजितात्मा तु मेधावी स राज्यमभिपालयेत्
MBh 5.127.23
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्
MBh 5.127.24
लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम्
MBh 5.127.25
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः
MBh 5.127.26
अविधेयानि हीमानि व्यापादयितुमप्यलम् अविधेया इवादान्ता हयाः पथि कुसारथिम्
MBh 5.127.27
अविजित्य य आत्मानममात्यान्विजिगीषते अजितात्माजितामात्यः सोऽवशः परिहीयते
MBh 5.127.28
आत्मानमेव प्रथमं देशरूपेण यो जयेत् ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते
MBh 5.127.29
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते
MBh 5.127.30
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः
MBh 5.127.31
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ
MBh 5.127.32
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः सम्यग्विजेतुं यो वेद स महीमभिजायते
MBh 5.127.33
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम्
MBh 5.127.34
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत
MBh 5.127.35
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी
MBh 5.127.36
यथा भीष्मः शांतनवो द्रोणश्चापि महारथः आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ
MBh 5.127.37
प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः
MBh 5.127.38
सुहृदामर्थकामानां यो न तिष्ठति शासने प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः
MBh 5.127.39
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् न चापि विजयो नित्यं मा युद्धे चेत आधिथाः
MBh 5.127.40
भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम
MBh 5.127.41
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम्
MBh 5.127.42
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम्
MBh 5.127.43
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत
MBh 5.127.44
श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात्
MBh 5.127.45
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ
MBh 5.127.46
अलमह्ना निकारोऽयं त्रयोदश समाः कृतः शमयैनं महाप्राज्ञ कामक्रोधसमेधितम्
MBh 5.127.47
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते
MBh 5.127.48
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम्
MBh 5.127.49
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम्
MBh 5.127.50
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते
MBh 5.127.51
समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः
MBh 5.127.52
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम्
MBh 5.127.53
न लोभादर्थसंपत्तिर्नराणामिह दृश्यते तदलं तात लोभेन प्रशाम्य भरतर्षभ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 53 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.127local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷