🪷 Mahābhārata · Udyoga-Parva · Chapter 126
The Book of the Effort · Parva 5 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 5.126.1
वैशंपायन उवाच
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
MBh 5.126.2
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि
स्थिरो भव सहामात्यो विमर्दो भविता महान्
MBh 5.126.3
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः
पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः
MBh 5.126.4
श्रिया संतप्यमानेन पाण्डवानां महात्मनाम्
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत
MBh 5.126.5
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः
तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः
MBh 5.126.6
अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम्
असतां तत्र जायन्ते भेदाश्च व्यसनानि च
MBh 5.126.7
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम्
असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः
MBh 5.126.8
कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति
आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया
MBh 5.126.9
कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया
MBh 5.126.10
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः
MBh 5.126.11
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु
स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम्
MBh 5.126.12
नृशंसानामनार्याणां परुषाणां च भाषणम्
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्
MBh 5.126.13
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते
आस्थितः परमं यत्नं न समृद्धं च तत्तव
MBh 5.126.14
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने
MBh 5.126.15
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव
MBh 5.126.16
एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान्
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु
MBh 5.126.17
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे
MBh 5.126.18
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च
शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव
MBh 5.126.19
शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात्
MBh 5.126.20
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया
MBh 5.126.21
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम्
दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि
MBh 5.126.22
न चेत्संधास्यसे राजन्स्वेन कामेन पाण्डवैः
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः
MBh 5.126.23
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते
MBh 5.126.24
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्
MBh 5.126.25
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम्
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्
MBh 5.126.26
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः
अशिष्टवदमर्यादो मानी मान्यावमानिता
MBh 5.126.27
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः
MBh 5.126.28
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह
दुर्योधनमभिप्रेक्ष्य भीष्मः शांतनवोऽब्रवीत्
MBh 5.126.29
धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव
MBh 5.126.30
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित्
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः
MBh 5.126.31
कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः
MBh 5.126.32
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान्
MBh 5.126.33
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः
प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम्
MBh 5.126.34
तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः
MBh 5.126.35
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः
भवतामानुकूल्येन यदि रोचेत भारताः
MBh 5.126.36
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान्
जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः
MBh 5.126.37
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः
ज्ञातीनां हितकामेन मया शस्तो महामृधे
MBh 5.126.38
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः
MBh 5.126.39
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः
संभूय सुखमेधन्ते भारतान्धकवृष्णयः
MBh 5.126.40
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च
MBh 5.126.41
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत
अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः
MBh 5.126.42
पराभविष्यन्त्यसुरा दैतेया दानवैः सह
आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः
MBh 5.126.43
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः
अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम्
MBh 5.126.44
इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान्
MBh 5.126.45
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान्
MBh 5.126.46
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः
वरुणः सागरे यत्तो नित्यं रक्षति दानवान्
MBh 5.126.47
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम्
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत
MBh 5.126.48
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
MBh 5.126.49
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 125
- Next chapter · Udyoga-Parva Ch 127 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.126local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷