🪷 Mahābhārata · Udyoga-Parva · Chapter 129

The Book of the Effort · Parva 5 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 5.129.1
वैशंपायन उवाच विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्
MBh 5.129.2
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि
MBh 5.129.3
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः
MBh 5.129.4
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः
MBh 5.129.5
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् लोकपाला भुजेष्वासन्नग्निरास्यादजायत
MBh 5.129.6
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम्
MBh 5.129.7
प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः
MBh 5.129.8
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः
MBh 5.129.9
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः
MBh 5.129.10
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः
MBh 5.129.11
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः रोमकूपेषु च तथा सूर्यस्येव मरीचयः
MBh 5.129.12
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः
MBh 5.129.13
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् संजयं च महाभागमृषींश्चैव तपोधनान् प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः
MBh 5.129.14
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च
MBh 5.129.15
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ
MBh 5.129.16
ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः
MBh 5.129.17
ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः
MBh 5.129.18
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा
MBh 5.129.19
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम्
MBh 5.129.20
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् निश्चक्राम ततः शौरिः सधूम इव पावकः
MBh 5.129.21
ततो रथेन शुभ्रेण महता किङ्किणीकिना हेमजालविचित्रेण लघुना मेघनादिना
MBh 5.129.22
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः
MBh 5.129.23
तथैव रथमास्थाय कृतवर्मा महारथः वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत
MBh 5.129.24
उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत
MBh 5.129.25
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन
MBh 5.129.26
कुरूणां शममिच्छन्तं यतमानं च केशव विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि
MBh 5.129.27
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः
MBh 5.129.28
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः शमे प्रयतमानं मां सर्वयत्नेन माधव
MBh 5.129.29
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम्
MBh 5.129.30
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः
MBh 5.129.31
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम्
MBh 5.129.32
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः
MBh 5.129.33
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः
MBh 5.129.34
ततो रथेन शुभ्रेण महता किङ्किणीकिना कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.129local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷